तस्मा॒ आपो᳚ घृ॒तम᳚र्षन्ति॒ सिन्ध᳚व॒स्तस्मा᳚ इ॒यं दक्षि᳚णा पिन्वते॒ सदा᳚ ॥
पदपाठः (Word-by-word)
तस्मै᳚ । आपः᳚ । घृ॒तम् । अ॒र्ष॒न्ति॒ । सिन्ध᳚वः । तस्मै᳚ । इ॒यम् । दक्षि᳚णा । पि॒न्व॒ते॒ । सदा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सोमयागप्रशंसाप्रसंगेनसामान्यतोदानमेतदादिभिस्त्रिभिः प्रशंसति यद्वा सोमस्यैवस्तुतत्वाद्दक्षि- णाशब्दस्ययागएवप्रसिद्धत्वाच्च सूक्तपरिसमाप्तेः सोमयागएवप्रस्तूयते यः योमर्त्यः पृणाति हविरा- दिदानेनदेवादीन्प्रीणाति सनाकस्य कमितिसुखनाम तद्विरुद्धमकं नविद्यते अकंदुः खंतत्साधनंपापं- चेति नाकोद्युलोकः तथाश्रूयते—नवाअमुंलोकंजग्मुषेकिंचनाकमिति । तस्यपृष्ठेउन्नते उपरिदेशेश्रितं- सन्नधिअधिकं आकल्पान्तंतिष्ठति यद्वा अधितिष्ठति अधिष्ठायप्रमुखोभूत्वातिष्ठति नकेवलंस्वर्गाश्रयणं किंतु देवेषुमध्येगच्छतिवर्तते स्वयमेवदेवोभवतीत्यर्थः हेतिप्रसिद्धौ तस्मैप्रीणयित्रे पुरुषायसिन्धवः स्यन्दनशीलाः आपः घृतंतेजोवत्सारं अषंन्ति गच्छन्ति रसवत्योभवन्तीत्यर्थः किंचेयंभूमिरपि दक्षि- णासस्यादिफलसंपादनदक्षासती सदा सर्वकालं पिन्वते सेचयति तोषयतीत्यर्थः दातुः जीवनसाध- नान्नोदकानि रुचिराणिसमृद्धानिभवन्तीत्यर्थः ॥ ५ ॥