दक्षि᳚णावता॒मिदि॒मानि᳚ चि॒त्रा दक्षि᳚णावतां दि॒वि सूर्या᳚सः ।
दक्षि᳚णावन्तो अ॒मृतं᳚ भजन्ते॒ दक्षि᳚णावन्त॒ः प्र ति᳚रन्त॒ आयु᳚ः ॥
दक्षि᳚णावन्तो अ॒मृतं᳚ भजन्ते॒ दक्षि᳚णावन्त॒ः प्र ति᳚रन्त॒ आयु᳚ः ॥
पदपाठः (Word-by-word)
दक्षि᳚णा॑वताम् । इत् । इ॒मानि᳚ । चि॒त्रा । दक्षि᳚णा॑वताम् । दि॒वि । सूर्या᳚सः ।
दक्षि᳚णा॑वन्तः । अ॒मृत᳚म् । भ॒ज॒न्ते॒ । दक्षि᳚णा॑वन्तः । प्र । ति॒र॒न्ते॒ । आयुः᳚ ॥
दक्षि᳚णा॑वन्तः । अ॒मृत᳚म् । भ॒ज॒न्ते॒ । दक्षि᳚णा॑वन्तः । प्र । ति॒र॒न्ते॒ । आयुः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
दक्षिणावतां बहुविधगोहिरण्यादिरूपदक्षिणाप्रदातॄणांइच्छब्दएवकारार्थः तेषामेवार्थे इमानिभू- मौदृश्यमानानिचित्राणिचायनीयानिस्रक् चंदनमणिमुक्तादिरूपाणिद्रव्याणि समृद्धानि भवन्तीतिशे- षः किंच दक्षणावतामेवदिविद्युलोकेसूर्यासः सूर्यसंबन्धिनोलोकाः तदनुगृहीताभोगावा समृद्धाभव- न्ति किंच दक्षिणावन्तएवअमृतंजरामरणरहितंस्थानं भजन्तेसेवन्ते यद्वा दानेनापहतपाप्मानआत्मा- नंविदित्वा अमृतमविनाशंमोक्षं भजन्ते प्राप्नुवन्ति यज्ञेनदानेनेतिश्रुतेः । किंच दक्षिणावन्तएवआयुः प्रतिरन्ते अतिदीर्घमायुष्यंलभंते वर्धयन्ति प्रपूर्वस्तिरतिर्वर्धनार्थः इदितिसर्वत्रसंबध्यते ॥ ६ ॥