रि॒रि॒क्वांस᳚स्त॒न्व᳚ः कृण्वत॒ स्वाः सखा॒ सख्यु᳚र्नि॒मिषि॒ रक्ष᳚माणाः ॥
पदपाठः (Word-by-word)
रि॒रि॒क्वांसः᳚ । त॒न्वः᳚ । कृ॒ण्व॒त॒ । स्वाः । सखा᳚ । सख्युः᳚ । नि॒॑मिषि᳚ । रक्ष᳚माणाः ॥
सायणभाष्यम् (Sayana Commentary)
घर्माभिष्टवे संजानाना इत्येषा । अथोत्तरमिति खंडे सूत्रितम् । संजानाना उप सीदन्नभिज्ञ्वादशभिर्विवस्वतः (आ ४-७) इति ॥
हे अग्ने त्वां संजानानाः सम्यग्जानंतो देवा उप सीदन् । उपसीदंतिप्राप्नुवंति । उपसत्तिं कृत्वा च पत्नीवंतः सपत्नीकाः संतो नमस्यं नमस्कारार्हमभिज्ञु अभिमुख्येनावस्थितजानुयुक्तं त्वां नमस्यन् । अपूजयन् । पूजयित्वा च सख्युर्मित्रस्य तव निमिषि दर्शने निमित्तभूते सति रक्षमाणास्त्वया परिरक्ष्यमाणाः सखा सखायो देवाः स्वास्तन्वः स्वकीयानि शरीराणि रिरिक्वांसोऽनशनादिरूपेण दीक्षानियमेन रिक्तीकुर्वंतः शोषयंतः कृण्वत । यागानकुर्वन् । देवा वै यज्ञमतन्वत । ऐ ब्रा २-११ । इति श्रुतेः ॥ नमस्यन् । नमोवरिवश्चित्रङ इति पूजार्थे क्यच् । लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । रिरिक्वांसः । रिचिर् विरेचने । लिटः क्वसुः । निमिषि । मिष स्वर्धायाम् । अत्रोपसर्गवशाद्दर्शनार्थः । संपदादिलक्षणो भावे क्विप् । रक्षमाणाः । कर्मणि लटः शानच् । यकि प्राप्ते व्यत्ययेन शप् ॥ ५ ॥