श्रवणम्

1.160.3
स वह्नि᳚ः पु॒त्रः पि॒त्रोः प॒वित्र᳚वान्पु॒नाति॒ धीरो॒ भुव᳚नानि मा॒यया᳚ ।
धे॒नुं च॒ पृश्निं᳚ वृष॒भं सु॒रेत᳚सं वि॒श्वाहा᳚ शु॒क्रं पयो᳚ अस्य दुक्षत ॥
▶ पदपाठः (Word-by-word)
सः । वह्निः᳚ । पु॒त्रः । पि॒त्रोः । प॒वित्र᳚॑वान् । पु॒नाति᳚ । धीरः᳚ । भुव᳚नानि । मा॒यया᳚ ।
धे॒नुम् । च॒ । पृश्नि᳚म् । वृ॒ष॒भम् । सु॒॑रेत᳚सम् । वि॒श्वाहा᳚ । शु॒क्रम् । पयः᳚ । अ॒स्य॒ । धु॒क्ष॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पित्रोः मातापित्रोर्द्यावापृथिव्योः पितामात्रेतिपिताशिष्यते उदात्तयणइतिपितुर्विभक्तिरुदात्ता पुत्रः पुरुत्राता पुत्रस्थानीयाअदित्यः पवित्रवान्पावनरश्मियुक्तः धीरः धीमान् सवह्निः फलस्यवो- ढाधारकः सन् मायया प्रज्ञयास्वकीयया भुवनानिभूतजातानि पुनातिपावयति प्रकाशयतीत्यर्थः किंच सएवपुत्रः पृश्निंशुक्लवर्णांधेनुं प्रीणयित्रींभूमिं सुरेतसं शोभनसायर्थ्यं शोभनोदकंवा वृषभं से- क्तारंद्युलोकंच मायया पुनाति पावयति प्रकाशयतीत्यर्थः कदा विश्वाहा सर्वाण्यप्यहानि सर्वकाल- मित्यर्थः किंच अस्यद्युलोकस्य कर्मणिषष्ठी इमंद्युलोकं शुक्रंपयः दीप्तंपयः सदृशमुदकंधुक्षत दोग्धि दुहेश्छान्दसेलुङि शलइगुपधादनिटःक्सइतिच्लेःक्सादेशः ईदृशोमहानुभावआदित्यस्तयोःपुत्रइति- द्यावापृथिव्योःस्तुतिः ॥ ३ ॥