श्रवणम्

1.158.2
को वां᳚ दाशत्सुम॒तये᳚ चिद॒स्यै वसू॒ यद्धेथे॒ नम᳚सा प॒दे गोः ।
जि॒गृ॒तम॒स्मे रे॒वती॒ः पुरं᳚धीः काम॒प्रेणे᳚व॒ मन᳚सा॒ चर᳚न्ता ॥
▶ पदपाठः (Word-by-word)
कः । वा॒म् । दा॒श॒त् । सु॒॑म॒तये᳚ । चि॒त् । अ॒स्यै । वसू॒ इति᳚ । यत् । धेथे॒ इति᳚ । नम᳚सा । प॒दे । गोः ।
जि॒गृ॒तम् । अ॒स्मे इति᳚ । रे॒वतीः᳚ । पुर᳚म्॑धीः । का॒म॒प्रेण᳚॑इव । मन᳚सा । चर᳚न्ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवसू वासयितारावश्विनौ वां युवयोः संबन्धिन्यैअस्यैवक्ष्यमाणरूपायै सुमतयेचित् शोभनबुद्भ्यै चित् पूजायामप्यर्थेवा स्वल्पेनैवहविषामहत्फलप्रदानरूपायै ईदृश्याअपिबुद्धेः प्रीणनायकोदाशत् कोदद्यात् दातुंशक्रुयात् युवयोः प्रभावस्यातिमहत्त्वादितिभावः दाशतेर्लेट्यडागमः कथंमतेः सौष्ठ- वमितितदुच्यते यद्यस्मात्कारणात् गोःपदे भूम्याः सर्वैर्गन्तव्यायाःस्तुत्यायावा वेदिरूपायाःस्थाने एतावतीवैपृथिवीयावतीवेदिरितिश्रुतेः । गौरितिभूतिनाम तथाचनिरुक्तं—गौरितिपृथिव्यानाम- धेयंयद्दूरंगताभवतियच्चास्यांभूतानिगच्छन्तिगातेर्वौकारोनामकरणइति । तादृशेस्थाने अस्माभिः प्रार्थितौसन्तौ नमसा हविर्लक्षणेनयवमात्रप्रकारेणअन्नेन धेथे धारयथः बहुप्रदानविषयांबुद्धिं दधा- तेर्लटिबहुलंछन्दसीतिविकरणस्यलुक् धातोर्ह्रस्वत्वं आतोङितइति इयादेशः यस्मादेवंतस्मात् अस्मे अस्मभ्यं रेवतीः क्षीरादिधनवतीः पुरन्धीः शरीरधारकाः शरीराभिवृद्धिहेतूर्गाः जिगृतंशब्दयतं द- दतमित्यर्थः गॄशब्दे छान्दसःशपःश्लुः अभ्यासस्येत्वंह्रस्वत्वंच पुनस्तावेवविशेष्येते कामप्रेणेव इव- शब्दएवकारार्थः कामपूरकेणैव मनसासहचरन्ता चरन्तौयजमानस्यकामाः पूरणीयाइतिकृतसंक- ल्पावित्यर्थः प्रापूरणे कामंप्रीणातोतिकामप्रः आतोनुपसर्गेकः ॥ २ ॥