अ॒पामर्थं᳚ य॒तीनां᳚ ब्र॒ह्मा भ᳚वति॒ सार᳚थिः ॥
पदपाठः (Word-by-word)
अ॒पाम् । अर्थ᳚म् । य॒तीना᳚म् । ब्र॒ह्मा । भ॒व॒ति॒ । सार᳚थिः ॥
सायणभाष्यम् (Sayana Commentary)
दीर्घतमाः एतन्नामामहर्षिः सचमामतेयः ममतायाःपुत्रः दशमेयुगेदशयुगपर्यन्तं महानुभावयोर श्विनोःप्रभावत्पूर्वोक्तादृउःखाद्विमुक्तः अत्यंतसुखी स्वपुत्रभायादिभिःसहितोजीवितवान् दशमेयुगे- तीतेसति जुजुर्वान् जीर्णोवलीपलितगात्रोबभूव एवंभूतःसन् अर्थं पुरुषैरर्थ्यमानंकर्मफलंस्वर्गादिकं- यतीनांप्राप्नुवन्तीनां अपांअप्कार्यणांप्रजानां यद्वा अपांअपसांकर्मणांअर्थंप्रयोजनंयतीनां तासांप्रजा- ना ब्रह्माब्रह्मसदृशः परिवृढोभवति किंच सारथिः तद्वन्निर्वाहकोभवति देवोभवतीत्यर्थः एवमस्य- वृत्तांतंमन्त्रोनोवदतिस्वयंवास्वात्मानं पारोक्ष्येणाशिनोर्महानुभावत्वंप्रकटयितुंब्रवीति ॥ ६ ॥
प्रद्यावेतिपंचर्चंतृतीयंसूक्तं दैर्घतमसंजागतंद्यावापृथिव्यं अनुक्रान्तंच—प्रद्यावापंचद्यावापृथिव्यं- तुजागतंत्विति अग्निष्टोमेपृष्ठ्यस्यषष्ठेहनिचद्यावापृथिव्यनिविद्धानमेतत्सूक्तम् तथाचसूत्रं—प्रद्यावे- तिदैर्घतमसमिति आद्याद्यावापृथिव्येपशौहविषोयाज्या तथाचसूत्रितम्—प्रद्यावायज्ञैः पृथिवीऋता- वृधामृळानोरुद्रोतनोमयस्कृधीतिद्वेइति ।