यु॒क्तो ह॒ यद्वां᳚ तौ॒ग्र्याय᳚ पे॒रुर्वि मध्ये॒ अर्ण᳚सो॒ धायि᳚ प॒ज्रः ।
उप᳚ वा॒मवः᳚ शर॒णं ग᳚मेयं॒ शूरो॒ नाज्म᳚ प॒तय᳚द्भि॒रेवै᳚ः ॥
उप᳚ वा॒मवः᳚ शर॒णं ग᳚मेयं॒ शूरो॒ नाज्म᳚ प॒तय᳚द्भि॒रेवै᳚ः ॥
पदपाठः (Word-by-word)
यु॒क्तः । ह॒ । यत् । वा॒म् । तौ॒ग्र्याय᳚ । पे॒रुः । वि । मध्ये᳚ । अर्ण᳚सः । धायि᳚ । प॒ज्रः ।
उप᳚ । वा॒म् । अवः᳚ । श॒र॒णम् । ग॒मे॒य॒म् । शूरः᳚ । न । अज्म᳚ । प॒तय᳚त्॑भिः । एवैः᳚ ॥
उप᳚ । वा॒म् । अवः᳚ । श॒र॒णम् । ग॒मे॒य॒म् । शूरः᳚ । न । अज्म᳚ । प॒तय᳚त्॑भिः । एवैः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अत्रेतिहासमाहुः—तौग्र्यनामकंराजानं युद्धेशत्रवःपराभाव्यपाशैर्दृढंबद्ध्वासमुद्रमध्येप्रचिक्षिपुः सचोत्तरीतुमशक्तःसन् अश्विनौतुष्टाव तौचतुष्टौशीघ्रमेवरथमश्वैर्योजयित्वासमुद्रमागत्य तमुत्तार्य- अपालयतामिति अयमर्थः—अजोहवीदश्विनातौग्र्यइत्यादिमन्त्रान्तरेप्रसिद्धः । सोऽत्रोच्यते—हेअ- श्विनौ वां युवयोःसंबन्धी पेरुःपारणकुशलोरथः युक्तोह अश्वैर्युक्तःखलु हशब्दोमन्त्रांतरप्रसिद्धिद्योत- नार्थः सचोदाहृतः कस्मैतौग्र्याय एतन्नाम्नेराज्ञे तद्बंधमोचनार्थं कुत्रेतितदुच्यतेअर्णसः अंभसोमध्येस- मुद्रस्यमध्ये सचपज्रः पाजसाबलेनतीर्णः सन् विधायि धारितः स्थापितः यस्मादेवंतस्माद्वां युवयोः अवः रक्षणं शरणंउपगमेयं संप्राप्नुयां ऎहिकदुःखाद्विमुक्तोयुष्मत्स्थानंसंभजेयं गतौदृष्टान्तः-पतयद्भ- रेवैरश्वैः शूरोन शूरइव सयथाअज्मजित्वानिर्भयंस्वगृहंप्राप्नोतितद्वत् ॥ ३ ॥