तद्वां᳚ नरावश्विना॒ पश्व᳚इष्टी॒ रथ्ये᳚व च॒क्रा प्रति᳚ यन्ति॒ मध्व᳚ः ॥
पदपाठः (Word-by-word)
तत् । वा॒म् । न॒रौ॒ । अ॒श्वि॒ना॒ । पश्वः᳚॑इष्टिः । रथ्या᳚॑इव । च॒क्रा । प्रति᳚ । य॒न्ति॒ । मध्वः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अत्रेतिहसमाहुः—प्रवर्ग्येणप्रचरन्तमन्त्रिंराक्षसास्तप्तेघर्मेपातयन् सचतप्यमानोश्विनौतुष्टावतौ- चस्तुत्याहृष्टमनसावरक्षतामिति अपरेग्नौक्षिप्तमपालयतमित्याहुरिति हेअश्विनौ युवंयुवांमधुमन्तं- पयोघृतरूपाभ्यांमधुभ्यां तद्वन्तंघर्मंदीप्तंप्रवर्ग्यंएषेसौख्यमिच्छते अन्त्र येएतन्नाम्नेमहर्षये क्षोदः क्षो- दांसिक्षोद्यमानांनि अपोन उदकानीव अवृणीतं अवारयतं औष्णयेशौत्यसुखंकृतवन्तौतप्तघर्मसका- शाद्रक्षितवन्तावित्यर्थः यद्वा अन्त्रयेक्षोदः उदकनामैतत् तेनतत्स्थंशौत्यंलक्ष्यते अपः क्षोदोन अपइ- तिषष्ठ्यर्थेद्वितीया उदकानांशैत्यंयथाभवतितद्वत् पक्षान्तरेतुघर्मंदीप्तमग्निंमधुमन्तं कृत्वा वृणीतंसु- खयतमित्यर्थः तथाचमन्त्रान्तरं—तप्तंघर्ममोम्यावन्तमन्त्रयइति । तत्तस्मात् यस्मादेवंतस्मात् हेनरौ नेतारौ नराकारौवा अश्विना अश्विनौवांयुवाभ्यांपश्वइष्टिः पशुरित्यग्नेर्नाम अग्निःपशुरासीदित्यादि- श्रुतेः । यद्वा पशुप्रियत्नायाशुरित्युच्यते तस्याग्नेरिष्टिर्भवति अग्नौयागः सर्वोयुष्मदर्थंप्रवर्ततइत्यर्थः यद्वा पशुसाध्योयागोयुवाभ्यांप्रवर्ततइतिशेषः आश्विनंधूम्नललाममालभेते योदुर्ब्राह्मणः सोमंपिपासे- दित्यादिनाप्यश्विभ्यांपशुर्विहितः । तथामध्वामधुसदृशाःसोमरसाअपियुवाभ्यांप्रतियन्ति अभिग- च्छन्ति तत्रदृष्टान्तः—रंथ्येवचका रथसंबन्धीनिचक्राचक्राणीव तानियथाप्रवणदेशमभिगच्छन्तितद्व- त् ॥ ४ ॥