श्रवणम्

1.180.9
प्र यद्वहे᳚थे महि॒ना रथ᳚स्य॒ प्र स्य᳚न्द्रा याथो॒ मनु᳚षो॒ न होता᳚ ।
ध॒त्तं सू॒रिभ्य᳚ उ॒त वा॒ स्वश्व्यं॒ नास᳚त्या रयि॒षाचः᳚ स्याम ॥
▶ पदपाठः (Word-by-word)
प्र । यत् । वहे᳚थे॒ इति᳚ । म॒हि॒ना । रथ᳚स्य । प्र । स्य॒न्द्रा॒ । या॒थः॒ । मनु᳚षः । न । होता᳚ ।
ध॒त्तम् । सू॒रि॑भ्यः᳚ । उ॒त । वा॒ । सु॒॑अश्व्य᳚म् । नास᳚त्या । र॒यि॒॑साचः᳚ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ युवांरथस्यगमनसाधनस्यमहिनामहत्त्वेन यत् यस्मात्प्रवहेथे धारयेथेयज्ञं यद्वा रथस्य- स्वर्गगमनसाधनस्ययागस्यधुरंवहतः तथाहेस्पन्द्रा स्पन्दनशीलौयुवां याथोगच्छथः स्वस्थानंयज्ञारं- भेआगच्छथः यज्ञसमाप्तौपुनर्गच्छथश्च तत्रदृष्टान्तः—मनुषोहोतान मनुष्यस्ययजमानस्य होतायथा- यज्ञप्रारंभे आगच्छति कर्मण्यपवृत्ते पुनर्निर्गच्छति तद्वत् आगमनसमये सूरिभ्यः स्तोतृभ्यः धत्तं धार- यतं फलं उतवा स्वश्व्यंशोभनाश्वसमूहंधत्तं नासत्या सत्सुभवौ सत्यौ नसत्यौअसत्यौ नअसत्यौनास- त्यौ हेतादृशौ त्वदनुग्रहाद्रयिसाचोधनसमवायिनः स्यामभवेम ॥ ९ ॥