यु॒वं पय᳚ उ॒स्रिया᳚यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः ।
अ॒न्तर्यद्व॒निनो᳚ वामृतप्सू ह्वा॒रो न शुचि॒र्यज᳚ते ह॒विष्मा᳚न् ॥
अ॒न्तर्यद्व॒निनो᳚ वामृतप्सू ह्वा॒रो न शुचि॒र्यज᳚ते ह॒विष्मा᳚न् ॥
पदपाठः (Word-by-word)
यु॒वम् । पयः᳚ । उ॒स्रिया᳚याम् । अ॒ध॒त्त॒म् । प॒क्वम् । आ॒माया᳚म् । अव᳚ । पूर्व्य᳚म् । गोः ।
अ॒न्तः । यत् । व॒निनः᳚ । वा॒म् । ऋ॒त॒प्सू॒ इत्यृ᳚त॑प्सू । ह्वा॒रः । न । शुचिः᳚ । यज᳚ते । ह॒विष्मा᳚न् ॥
अ॒न्तः । यत् । व॒निनः᳚ । वा॒म् । ऋ॒त॒प्सू॒ इत्यृ᳚त॑प्सू । ह्वा॒रः । न । शुचिः᳚ । यज᳚ते । ह॒विष्मा᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
हेअश्विनौ युवंयुवांउस्त्रियायां गोनामैतत् भोगोत्स्राविण्यांगवि पयः अधत्तं अधारयतं स्थापित- वन्तौ तथाआमायां अपक्वायंपक्वंपरिपक्वंभोगयोग्यंगोसंबंधिदुग्धंपूर्व्यंपूर्वभवंतत्रैवोत्सन्नं अव अवस्ता- दाधारयतं गविक्षीरमुत्पाद्यपुनर्भोगायपृथक् कृतवन्तावित्यर्थः यत् यस्मात् हेऋतप्सू सत्यस्वरूपौ- यज्ञियहविर्भक्षयितारौवा हेअश्विनौ वांवनिनः उदकवतः उदकोपलक्षितहविष्मतोयज्ञस्य अन्तर्मध्ये- हविष्मान् प्रदेयहविषातद्वान् शुचिः शुद्धोयजमानोयजतेपूजयतियुवां तस्मादेवमकुरुतं यद्वा यदैवं- यजमानःकरोतितदेत्यर्थः तत्रदृष्टान्तः—वनिनोवनसंबन्धिवृक्षसमूहस्यान्तर्मध्येह्वारोन चोरइव सयथाजागरूकोवर्तते तथायजमानोपीत्यर्थः ॥ ३ ॥