तं वां॒ रथं᳚ व॒यम॒द्या हु᳚वेम॒ स्तोमै᳚रश्विना सुवि॒ताय॒ नव्य᳚म् ।
अरि᳚ष्टनेमिं॒ परि॒ द्यामि᳚या॒नं वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
अरि᳚ष्टनेमिं॒ परि॒ द्यामि᳚या॒नं वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
पदपाठः (Word-by-word)
तम् । वा॒म् । रथ᳚म् । व॒यम् । अ॒द्य । हु॒वे॒म॒ । स्तोमैः᳚ । अ॒श्वि॒ना॒ । सु॒वि॒ताय᳚ । नव्य᳚म् ।
अरि᳚ष्ट॑नेमिम् । परि᳚ । द्याम् । इ॒या॒नम् । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
अरि᳚ष्ट॑नेमिम् । परि᳚ । द्याम् । इ॒या॒नम् । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
सायणभाष्यम् (Sayana Commentary)
हेअश्विनाअश्विनौ वांयुवयोः सबन्धिनंतंशीघ्रगमनेनस्तुत्यंरथंवयमगस्त्याअद्यास्मिन् सुत्येहनिहु- वेम आह्वयेम केनसाधनेनेतिउच्यते स्तोत्रैः किमर्थंसुवितायसुष्ठुप्राप्तये कीदृशं नव्यं स्तुत्यंनूतनंवा तथाअरिष्टनेमिं अहिंसितचक्रवलयं द्यां परीयानंद्युलोकस्यपरितोगच्छन्तं विद्यामेत्यादिगतम् ॥ १० ॥
कदुप्रेष्ठावितिनवर्चंद्वितीयंसूक्तं आगस्त्यंत्रैष्टुभमाश्विनं कदुनवेत्यनुक्रान्तं प्रातरनुवाकाश्विनशस्त्र- योर्विनियोगः पूर्वसूक्तएवोक्तः ॥