नि यद्यु॒वेथे᳚ नि॒युतः᳚ सुदानू॒ उप᳚ स्व॒धाभि᳚ः सृजथ॒ः पुरं᳚धिम् ।
प्रेष॒द्वेष॒द्वातो॒ न सू॒रिरा म॒हे द᳚दे सुव्र॒तो न वाज᳚म् ॥
प्रेष॒द्वेष॒द्वातो॒ न सू॒रिरा म॒हे द᳚दे सुव्र॒तो न वाज᳚म् ॥
पदपाठः (Word-by-word)
नि । यत् । यु॒वेथे॒ इति᳚ । नि॒॑युतः᳚ । सु॒दा॒नू॒ इति᳚ सु॑दानू । उप᳚ । स्व॒धाभिः᳚ । सृ॒ज॒थः॒ । पुर᳚म्॑धिम् ।
प्रेष᳚त् । वेष᳚त् । वातः᳚ । न । सू॒रिः । आ । म॒हे । द॒दे॒ । सु॒॑व्र॒तः । न । वाज᳚म् ॥
प्रेष᳚त् । वेष᳚त् । वातः᳚ । न । सू॒रिः । आ । म॒हे । द॒दे॒ । सु॒॑व्र॒तः । न । वाज᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेसुदानू शोभनदानावश्विनौ यत् यदानियुतोश्वान् नियुवेथेनियुञ्चाथेनियोजयथः ताभिरस्मद्यज्ञ- गमनायसंयुक्तोभवथः तदास्वधाभिरन्नैस्तत्कारणैरुदकैर्वापुरन्धिंबहूनांधात्रींपृथिवींउपसृजथः उप- सृष्टांकुरुतः एवंसति सूरिःस्तोतायोजयमानोवातोन वायुरिव तद्वत् क्षिप्रंयुवांप्रेषत् तर्पयतु वेषत् व्याप्नोतु कामयतांवा प्रीणातेर्वेतेश्चलेटिरूपे अनन्तरंसुव्रतोन अतिप्रशस्तकृष्यादिकर्मवानिव वाजम- न्नंमहेमहत्त्वायअयंयजमानआददे आदत्तेस्वीकरोति आङोदोनास्यविहरणे इत्यात्मनेपदं लोपस्तआ- त्मनेपदेष्वितितलोपः यद्वा छान्दसेलिटिरूपम् स्वीकृत्यस्वमहत्त्वाययुवामेवतर्पयत्वित्यर्थः ॥ ६ ॥