व॒यं चि॒द्धि वां᳚ जरि॒तारः᳚ स॒त्या वि᳚प॒न्याम᳚हे॒ वि प॒णिर्हि॒तावा᳚न् ।
अधा᳚ चि॒द्धि ष्मा᳚श्विनावनिन्द्या पा॒थो हि ष्मा᳚ वृषणा॒वन्ति᳚देवम् ॥
अधा᳚ चि॒द्धि ष्मा᳚श्विनावनिन्द्या पा॒थो हि ष्मा᳚ वृषणा॒वन्ति᳚देवम् ॥
पदपाठः (Word-by-word)
व॒यम् । चि॒त् । हि । वा॒म् । ज॒रि॒तारः᳚ । स॒त्याः । वि॒प॒न्याम᳚हे । वि । प॒णिः । हि॒त॑वा᳚न् ।
अध᳚ । चि॒त् । हि । स्म॒ । अ॒श्वि॒नौ॒ । अ॒नि॒न्द्या॒ । पा॒थः । हि । स्म॒ । वृ॒ष॒णौ॒ । अन्ति᳚॑देवम् ॥
अध᳚ । चि॒त् । हि । स्म॒ । अ॒श्वि॒नौ॒ । अ॒नि॒न्द्या॒ । पा॒थः । हि । स्म॒ । वृ॒ष॒णौ॒ । अन्ति᳚॑देवम् ॥
सायणभाष्यम् (Sayana Commentary)
वयंचिद्धि वयमपिजरितारः तवस्तोत सत्याःसत्यफलाःसन्तोविपन्यामहेविविधंस्तुमः पणिः पणाधारोद्रोणकलशोविहितवान् स्थापितरसवानासीत् यद्वा पणिर्वणिक् लुब्धकः अयष्टाहितवान् नियतधनोधनाढ्योप्ययष्टा वि वियुज्यतां उपसर्गश्रुतेर्योग्यक्रियाध्याहारः अध अपिच चिद्धिष्मए- तेत्रयःपूरणाः हेअश्विनौ अनिन्द्याप्रशस्यनामैतत् हेप्रशस्यौवृषणौ हेकामानांवर्षितारौ युवां अन्ति- देवंदेवानामन्तिके पाथः सोमंपिबथः यद्वा अन्तिकेवर्तमानं देवान्प्राप्नुवानं सोममितियोज्यम् ॥ ७ ॥