श्रवणम्

1.180.8
यु॒वां चि॒द्धि ष्मा᳚श्विना॒वनु॒ द्यून्विरु᳚द्रस्य प्र॒स्रव᳚णस्य सा॒तौ ।
अ॒गस्त्यो᳚ न॒रां नृषु॒ प्रश᳚स्त॒ः कारा᳚धुनीव चितयत्स॒हस्रै᳚ः ॥
▶ पदपाठः (Word-by-word)
यु॒वाम् । चि॒त् । हि । स्म॒ । अ॒श्वि॒नौ॒ । अनु᳚ । द्यून् । वि॑रु᳚द्रस्य । प्र॒॑स्रव᳚णस्य । सा॒तौ ।
अ॒गस्त्यः᳚ । न॒राम् । नृषु᳚ । प्र॑श᳚स्तः । कारा᳚धुनी॑इव । चि॒त॒य॒त् । स॒हस्रैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ युवां चिद्धिष्मेतित्रयःपूरणाः अनुद्यून् प्रतिदिनंविरुद्रस्यविशिष्टोष्णरूपदुः खद्रावण- स्यविविधरोरूयमाणद्रवणवतोवाप्रस्रवणस्य वृष्ट्युदकसंस्त्यायस्य सातौलाभेनिमित्तभूतेसति अग- स्त्यएतन्नामामहर्षिःनरांनेतॄणांकर्मनिर्वाहकानांमनुष्याणांनृषुयेषुतादृशामनुष्याः सन्ति तेषु प्रशस्तः प्रशस्यतरोयंसहस्रैः अपरिमितैः स्तोत्रैः चितयत् चेतयति स्तुत्याप्रबोधयति तत्रदृष्टान्तः—काराधु- नीव काराशब्दस्तस्यधूनयिता उत्पादयिताशंखादिः सइव यद्वैतदप्यगस्त्यविविशेषणं कारःशब्दयि- ताहोत्रादिः तस्यधुनिः कंपयिता प्रेरकइव इवेतिसंप्रत्यर्थे अस्त्युपमार्थस्यसंप्रत्यर्थेप्रयोगइतिनिरुक्त- म् ॥ ८ ॥