आ धे॒नवो᳚ मामते॒यमव᳚न्तीर्ब्रह्म॒प्रियं᳚ पीपय॒न्त्सस्मि॒न्नूध᳚न् ।
पि॒त्वो भि᳚क्षेत व॒युना᳚नि वि॒द्वाना॒साविवा᳚स॒न्नदि᳚तिमुरुष्येत् ॥
पि॒त्वो भि᳚क्षेत व॒युना᳚नि वि॒द्वाना॒साविवा᳚स॒न्नदि᳚तिमुरुष्येत् ॥
पदपाठः (Word-by-word)
आ । धे॒नवः᳚ । मा॒म॒ते॒यम् । अव᳚न्तीः । ब्र॒ह्म॒॑प्रिय᳚म् । पी॒प॒य॒न् । सस्मि᳚न् । ऊध᳚न् ।
पि॒त्वः । भि॒क्षे॒त॒ । व॒युना᳚नि । वि॒द्वान् । आ॒सा । आ॒॑विवा᳚सन् । अदि᳚तिम् । उ॒रु॒ष्ये॒त् ॥
पि॒त्वः । भि॒क्षे॒त॒ । व॒युना᳚नि । वि॒द्वान् । आ॒सा । आ॒॑विवा᳚सन् । अदि᳚तिम् । उ॒रु॒ष्ये॒त् ॥
सायणभाष्यम् (Sayana Commentary)
मामतेयंममतायाःपुत्रंदीर्घतमसंमांब्रह्मप्रियंपरिवृढस्यकर्मणःप्रियतमं परिवृढस्याग्नेः प्रीणयितारं- वा अवन्तोः अवन्त्यः प्रोणवन्त्यः धेतवोगावःस्वस्मिन्प्त्व कोयेऊधन् ऊधसिआपीपयन् सर्वतआप्या- ययन्तु प्यायतेर्णिचिछान्दसःपीभावः ऊधोगतेनक्षीरेणयुवाभ्यांप्रदत्तेननोऽस्मान्रक्षंत्वित्यर्थः मित्रा- वरुणाभ्यांपयस्येतिश्रुतेः । एवंप्रदत्तहविः वयुनानि अनुष्ठानविषयज्ञानानि विद्वान् जानन् हुतशेषो- भक्षणीयइत्यवगच्छन् दीर्घतमाः पित्वः पितोः हुतशिष्टस्यान्नस्यतादृगन्नंआसा आस्येन भक्षयितुंभि- क्षेत याचेत युष्मान् किंच आविवासन् युवांसमन्तात् परिचरन् अदितिं अखण्डितं अन्यूनमेतत्कर्म- उरुष्येत् रक्षेत् यथाशिष्टंभिक्षेत यथाचकर्मसमापनेनरक्षेत् तथापीपयन्नित्यर्थः ॥ ६ ॥ मैत्रावरुणपशौवपायाःएषानुवाक्या सूत्रितंच—आवांमित्रावरुणाहव्यजुष्टिमायातंमित्रावरुणेति ।