श्रवणम्

1.152.7 समानपद
आ वां᳚ मित्रावरुणा ह॒व्यजु᳚ष्टिं॒ नम᳚सा देवा॒वव᳚सा ववृत्याम् ।
अ॒स्माकं॒ ब्रह्म॒ पृत᳚नासु सह्या अ॒स्माकं᳚ वृ॒ष्टिर्दि॒व्या सु᳚पा॒रा ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । ह॒व्य॑जु᳚ष्टिम् । नम᳚सा । दे॒वौ॒ । अव᳚सा । व॒वृ॒त्या॒म् ।
अ॒स्माक᳚म् । ब्रह्म᳚ । पृत᳚नासु । स॒ह्याः॒ । अ॒स्माक᳚म् । वृ॒ष्टिः । दि॒व्या । सु॒॑पा॒रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेवौदेवनशीलौ मित्रावरुणा मित्रावरुणौ वांयुवां हव्यजुष्टिं हविःसेवां नमसानमस्कारोपलक्षि- तेनस्तोत्रेण अवसारक्षणेननिमित्तभूतेन आववृत्यां आवर्तयेयं यद्वा नमस्कारेणअवसा अन्नेनच आव- वृत्यां किंच हेमित्रावरुणौ अस्माकंसंबन्धिब्रह्मेदानींक्रियमाणं परिवृढंकर्म पृतनासुसंग्रामेषु सह्याः सह्यात् शत्रूनभिभूयात् अनेनकर्मणाशत्रूनभिभवेयमित्यर्थः किंच अस्माकं दिव्यादिविभवावृष्टिः सु- पारासुष्ठुपारयित्रीभवत्वितिशेषः वृष्टौसत्यांव्रीह्यादिद्वाराकर्मसमाप्तेरिति भावः ॥ ७ ॥

यजामहेवामितिचतुरृचंचतुर्दशंसूक्तं दैर्घतमसंत्रैष्टुभं मैत्रावरुणं यजामहेचतुष्कमित्यनुक्रमणिका विनियोगोलैङ्गिकः ।