त्रि॒रश्रिं᳚ हन्ति॒ चतु᳚रश्रिरु॒ग्रो दे᳚व॒निदो॒ ह प्र᳚थ॒मा अ᳚जूर्यन् ॥
पदपाठः (Word-by-word)
त्रिः॒॑अश्रि᳚म् । ह॒न्ति॒ । चतुः᳚॑अश्रिः । उ॒ग्रः । दे॒व॒॑निदः᳚ । ह॒ । प्र॒थ॒माः । अ॒जू॒र्य॒न् ॥
सायणभाष्यम् (Sayana Commentary)
एषंएतयोर्मध्ये बहुवचनंपूजार्थं यद्वा तदनुचरापेक्षयाबहुवचनं एतयोर्मध्ये त्वःचन एकएवएतत् वशेषेणचेतति अनुतिष्ठतीत्यर्थः सविशेष्यते सएकःसत्योबाध्यः सत्सुभवोवामन्त्रोमननवान् कविश- स्तः कविभिर्मेधाविभिः शंसनीयःऋघावान् हिंसावान् अनेन वक्ष्यमाणस्यसामर्थ्यस्यसंभाविताप्रति पादिताभवदित्युक्तम् किंतदित्याशंक्याह त्रिरश्चिं अश्रित्रयोपेतमायुधंत्रिरश्रि तद्वंतं मत्वर्थोलुप्यते उपलक्षणमेतत् सर्वायुधसंपन्नमित्यर्थः एतन्नामानंवाचतुरश्रिः ततोप्यधिकायुधवान् नकेवलमायुध- सामर्थ्यं किंतु उग्रः स्वयमुद्गूर्णबलः हन्तिहिनस्ति अतिबलंशत्रुं किंच युवयोरेकस्यैव सामर्थ्येन देव- विदोह देवनिन्दकास्तुप्रथमाःसमर्थाःसन्तोऽपि अजूर्यन्स्वयमेवजीर्णाभवन्ति जीर्यतेःश्यनि बहुलं- छन्दसीत्युत्वं युवयोर्मध्येएकोऽपिमहाबलः मिलितयोस्तुसामर्थ्येकिमुवक्तव्यमितिभावः अथवा एषांयुवयोरेतत् उत्तरत्रवक्ष्यमाणं सामर्थ्यंएकः सप्यादिलक्षणोविचिकेतत् विशेशेणजानाति शेषं पूर्ववत् ॥ २ ॥