श्रवणम्

1.152.4
प्र॒यन्त॒मित्परि᳚ जा॒रं क॒नीनां॒ पश्या᳚मसि॒ नोप᳚नि॒पद्य᳚मानम् ।
अन᳚वपृग्णा॒ वित᳚ता॒ वसा᳚नं प्रि॒यं मि॒त्रस्य॒ वरु᳚णस्य॒ धाम᳚ ॥
▶ पदपाठः (Word-by-word)
प्र॒॑यन्त᳚म् । इत् । परि᳚ । जा॒रम् । क॒नीना᳚म् । पश्या᳚मसि । न । उ॒प॒॑नि॒पद्य᳚मानम् ।
अन᳚व॑पृग्णा । वि॑त᳚ता । वसा᳚नम् । प्रि॒यम् । मि॒त्रस्य᳚ । वरु᳚णस्य । धाम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कनीनां कमनीयानां दीप्तानांकन्यकास्थानीयानां उषसांकनतेःकांतिकर्मणइञ् कृदिकारादक्तिन- इतिङीष् आमि कन्याशब्दस्यवाछन्दसंसंप्रसारणं तासांजारमादित्यंप्रयन्तमित् प्रगच्छन्तमेवपरिप- श्यामसिवयंपरिपश्यामः उपनिपद्यमानंक्षणमात्रमपिनिषीदन्तं नपश्यामः एतदपितयोःसामर्थ्यं पु- नस्तदेवविशेष्यते अनवपृग्णा अनवपृग्णानि असंपृक्तानिअतएवविततानि तेजांसिवसानंआच्छादय- न्तं प्रियंसर्वेषांप्रियभूतंमित्रस्यवरुणस्यचधामतेजः स्थानभूतं यद्वा प्रियंधामेतिसंबध्यते तयोःप्रेम- स्थानं ईदृशमादित्यं युष्मदनुज्ञयासंचरन्तंपश्यामसि ॥ ४ ॥