अ॒न॒श्वो जा॒तो अ᳚नभी॒शुरर्वा॒ कनि᳚क्रदत्पतयदू॒र्ध्वसा᳚नुः ।
अ॒चित्तं॒ ब्रह्म᳚ जुजुषु॒र्युवा᳚न॒ः प्र मि॒त्रे धाम॒ वरु᳚णे गृ॒णन्त᳚ः ॥
अ॒चित्तं॒ ब्रह्म᳚ जुजुषु॒र्युवा᳚न॒ः प्र मि॒त्रे धाम॒ वरु᳚णे गृ॒णन्त᳚ः ॥
पदपाठः (Word-by-word)
अ॒न॒श्वः । जा॒तः । अ॒न॒भी॒शुः । अर्वा᳚ । कनि᳚क्रदत् । प॒त॒य॒त् । ऊ॒र्ध्व॑सा᳚नुः ।
अ॒चित्त᳚म् । ब्रह्म᳚ । जु॒जु॒षुः॒ । युवा᳚नः । प्र । मि॒त्रे । धाम᳚ । वरु᳚णे । गृ॒णन्तः᳚ ॥
अ॒चित्त᳚म् । ब्रह्म᳚ । जु॒जु॒षुः॒ । युवा᳚नः । प्र । मि॒त्रे । धाम᳚ । वरु᳚णे । गृ॒णन्तः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सएवादित्यः अनश्वः यद्यपिशीघ्रगाम्यश्वरहितः तथाअनभीशुः आलंबनाधारप्रग्रहस्थानीयर- श्मिरहितः तथाप्यर्वाजातः शीघ्रगमनवान्संपन्नः तथाविधोयमादित्यः कनिक्रदत् अत्यर्थंक्रन्दयन् क्रन्देर्यङ्लुगन्ताच्छतरिदाधर्त्यादौनिपात्यते ऊर्ध्वसानुः उपर्युपरिसमुच्छ्रयणः सन् पतयत् गच्छति अचित्तंचित्ताविषयं ब्रह्मपरिवृढंउक्तरूपंकर्ममित्रेवरुणेचउभयोर्धामतेजः स्थानंयुवानः मिश्रयन्तः तयोर्धाम्निआरोपयन्तः तथाप्रगृणन्तः युवयोस्तेजःप्रभावमतिप्रकर्षेणस्तुवन्तः जुजुषुः सेवन्तेमनुष्याः सूर्यस्यनिरालंबांतरिक्षसंचारात्मकंकर्मवरुणमित्रयोरधीनमितिस्तुवन्तीत्यर्थः ॥ ५ ॥