यस्याज᳚स्रं॒ शव᳚सा॒ मान᳚मु॒क्थं प᳚रिभु॒जद्रोद᳚सी वि॒श्वतः᳚ सीम् ।
स पा᳚रिष॒त्क्रतु᳚भिर्मन्दसा॒नो म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
स पा᳚रिष॒त्क्रतु᳚भिर्मन्दसा॒नो म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
पदपाठः (Word-by-word)
यस्य᳚ । अज᳚स्रम् । शव᳚सा । मान᳚म् । उ॒क्थम् । प॒रि॒॑भु॒जत् । रोद᳚सी॒ इति᳚ । वि॒श्वतः᳚ । सी॒म् ।
सः । पा॒रि॒ष॒त् । क्रतु᳚॑भिः । म॒न्द॒सा॒नः । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
सः । पा॒रि॒ष॒त् । क्रतु᳚॑भिः । म॒न्द॒सा॒नः । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
सायणभाष्यम् (Sayana Commentary)
यस्येंद्रस्योक्थं प्रशस्यं शवसा मानं बलेन सर्वस्य परिच्छेदकं सर्वेषां बलस्योपमानभूतं वा रोधसी द्यावापृथिव्यौ विश्वतः सीं सर्वतोऽजस्रमनवरतं परिभुजत् परितः सर्वतो भुनक्ति पालयति स इंद्रः क्रतुभिरस्माभिः कृतैर्यागैर्मंदसानोमोदमानः सन्पारिषत् । अस्मान्दुरितात्पारयतु ॥ उक्थम् । वच परिभाषणे । पातृतु दिवचीत्यादिना कर्मणि थक् । वचिस्वपीत्यादिना संप्रसारणम् । परिभुजत् । भुज पालनाभ्यवहारयोः । लेट्यडागमः । व्यत्ययेन शः । पारिषत् । पार तीर कर्मसमाप्तौ । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । तस्यार्धधातुकत्वादिट् । व्यत्ययेन णिलोपः । मंदसानः । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । ऋंजिवृधिमंदिसहिभ्यः कित् (उ २-८७) इत्यसानच् प्रत्ययः ॥ १४ ॥