सो अङ्गि᳚रोभि॒रङ्गि᳚रस्तमो भू॒द्वृषा॒ वृष᳚भि॒ः सखि᳚भि॒ः सखा॒ सन् ।
ऋ॒ग्मिभि᳚रृ॒ग्मी गा॒तुभि॒र्ज्येष्ठो᳚ म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
ऋ॒ग्मिभि᳚रृ॒ग्मी गा॒तुभि॒र्ज्येष्ठो᳚ म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
पदपाठः (Word-by-word)
सः । अङ्गि᳚रः॑भिः । अङ्गि᳚रः॑तमः । भू॒त् । वृषा᳚ । वृष᳚॑भिः । सखि᳚॑भिः । सखा᳚ । सन् ।
ऋ॒ग्मि॑भिः᳚ । ऋ॒ग्मी । गा॒तु॑भिः᳚ । ज्येष्ठः᳚ । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
ऋ॒ग्मि॑भिः᳚ । ऋ॒ग्मी । गा॒तु॑भिः᳚ । ज्येष्ठः᳚ । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
सायणभाष्यम् (Sayana Commentary)
स इंद्रोऽंगिरोभिः । अंगंति गच्छंतीत्यंगिरसो गंतारः । तेभ्योऽप्यंगिरस्तमोऽभूत् । अतिशयेन गंता भवति । वृषभिर्वृषा वर्षितृभ्योऽप्यतिशयेन वर्षिता सखिभिः समानख्यानेभ्यो मित्रभूतेभ्योऽपि सखातिऽशयेन हितकारी एवंभूतः सन् ऋग्मिभिरर्चनीयेभ्योऽपि ऋग्म्यर्चनीयो भवति गातुभिर्गातव्येभ्यः स्तोतव्येभ्योऽपि ज्येष्ठोऽतिशयेन स्तोतव्यः एवंगुणविशिष्टो मरुत्वानिंद्रो रक्षणाय भवतु ॥ अंगिरोभिः । अगि रगि लगि गत्यर्थाः । अंगिरा अप्सराः । उ उ ४-२३५, २३६ । इत्यौणादिकोऽसुन्प्रत्ययो निपात्यते । इदमादिषु सर्वत्र पंचम्यर्थे तृतीया । ऋग्मिभिः । ऋच स्तुतौ । संपदादिलक्षणो भावे क्विप् । मत्वर्थीयो मिनिः । पदत्वात्कुत्वं जश्त्वं च । गातुभिः । गा स्तुतौ । कमिमनिजनीत्यादिना कर्मणि तुप्रत्ययः ॥