श्रवणम्

1.100.11
स जा॒मिभि॒र्यत्स॒मजा᳚ति मी॒ळ्हे॑जा᳚मिभिर्वा पुरुहू॒त एवै᳚ः ।
अ॒पां तो॒कस्य॒ तन᳚यस्य जे॒षे म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
सः । जा॒मि॑भिः᳚ । यत् । स॒म्॑अजा᳚ति । मी॒ळ्हे । अजा᳚मि॑भिः । वा॒ । पु॒रु॒॑हू॒तः । एवैः᳚ ।
अ॒पाम् । तो॒कस्य᳚ । तन᳚यस्य । जे॒षे । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुहूतो बहुभिर्यजमानैराहूतः स इंद्रो मीळ्हे संग्रामे । मीळ्हमिति धननाम । तद्धेतुत्वात्संग्रामोऽपि मीळ्हशब्देनोच्यते । जामिभिर्बंधुभिरजामिभिर्वा बांधवरहितैर्वैवैर्युद्धार्थं मरुद्भिः सह यद्यदा समजाति संगच्छते । तेषामुभयविधानामपामिंद्रं प्राप्नुवतां पुरुषाणां तोकस्य पुत्रस्य तनयस्य तत्पुत्रस्य च जेषे जयप्राप्तये स इंद्रो भवति । किमु वक्तव्यमस्माकं स्तोतृतमानां जयो भवतीति । अन्यत्समानं ॥ समजाति । अज गतिक्षेपणयोः । लेट्याडागमः । जेषे । जि जये । औणादिकः सप्रत्ययः । चतुर्थ्यर्थे सप्तमी । यद्वा । जेषृ णेषृ प्रेषृ गतौ । क्विप्चेति क्विप् । सावेकाच इति विभक्तेरुदात्तत्वं ॥ ११ ॥