तं स᳚चन्ते स॒नय॒स्तं धना᳚नि म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
पदपाठः (Word-by-word)
तम् । स॒च॒न्ते॒ । स॒नयः᳚ । तम् । धना᳚नि । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
सायणभाष्यम् (Sayana Commentary)
तस्येंद्रस्य वज्रः कुलिशः स्मत् भृशं क्रंदति । शत्रूनाक्रंदयति । रोदयतीत्यर्थः । य इंद्रः स्वर्षाः शोभनस्योदकस्य दाता दिवो न दिवः संबंधी सूर्य इव त्वेषो दीप्तः रवथः शब्दस्य गर्जनलक्षणस्य कर्ता शिमीवान् । शिमीति कर्मनाम । लोकानुग्राहकेण कर्मणा युक्तस्तमिंद्रं सनयो धनस्य दानानि सचंते । सेवंते । तथा तं धनानि च सेवंते । स मरुत्वानिंद्रो नोऽस्माकं रक्षणाय भवतु ॥ क्रंदति । कदि क्रदि क्लदि आह्वाने रोदने च । छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीति णिलोपः । स्वर्षाः । सुपूर्वादर्तेर्विच् । सुष्ठ्वर्ति गच्छतीति स्वरुदकम् । तत्सनोतीति स्वर्षाः । षणु दाने । जनसनखनक्रमगमो विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । सनोतेरनः (पा ८-३-१०८) इति षत्वम् । त्वेषः । त्विष दीप्तौ । पचाद्यच् । रवथः । रु शब्दे । शीङ् शपिरुगमिवंचिजीविप्राणिभ्योऽथः (उ ३-११३) इत्यथप्रत्ययः । गुणावादेशौ । सनयः । सनोतेर्भाव औणादिक इप्रत्ययः ॥ १३ ॥