श्रवणम्

1.100.9
स स॒व्येन᳚ यमति॒ व्राध᳚तश्चि॒त्स द᳚क्षि॒णे संगृ᳚भीता कृ॒तानि᳚ ।
स की॒रिणा᳚ चि॒त्सनि᳚ता॒ धना᳚नि म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
सः । स॒व्येन᳚ । य॒म॒ति॒ । व्राध᳚तः । चि॒त् । सः । द॒क्षि॒णे । सम्॑गृ᳚भीता । कृ॒तानि᳚ ।
सः । की॒रिणा᳚ । चि॒त् । सनि᳚ता । धना᳚नि । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इंद्रः सव्येन वावहस्तेनैकहस्तेन व्राधतश्चित् हिंसतो महतः शत्रूनपि यमति । नियमयति । तथा स इंद्रो दक्षिणे दक्षिणपार्श्वास्थेन हस्तेनैकेन यजमानैः कृतानि हवींषि संगृभीता । संगृह्णाति । अपि च स इंद्रः कीरिणा चित् कीर्तयित्रा स्तोत्रा च स्तुतः सन्धनानि सनिता प्रदानशीलो भवति । हविःष्प्रदातृणामिव स्तोतृणामपि धनं प्रयच्छतीत्यर्थः । शिष्टं स्पष्टं ॥ यमति । यम उपरमे । णिच्यमंतत्वान्मित्त्वे मितां ह्रस्व इति ह्रस्वत्वम् । छंदस्युभयथेति शप अर्धधातुकत्वाण्णेरनिटीति णिलोपः । व्राधतः । वधु वृद्धौ । अस्मादतिप्रत्यय औणादिक आमागमश्च । वृषादित्वादाद्युदात्तत्वम् । संगृभीता । ग्रह उपादाने । लिङि बहुलं छंदसीति विकरणस्य लुक् । लिङः सलोप इति सलोपः । ग्रहिज्यादिना संप्रसारणम् । हृग्रहोर्भ इति भत्वम् । द्व्यचोऽतस्तिङ इति दीर्घः । सनिता । षणु दाने । ताच्छीलिकस्तृन् । धनानि । न लोकाव्ययेति षष्ठीप्रतिषेधः ॥ ९ ॥