श्रवणम्

1.100.10
स ग्रामे᳚भि॒ः सनि᳚ता॒ स रथे᳚भिर्वि॒दे विश्वा᳚भिः कृ॒ष्टिभि॒र्न्व१॒᳚द्य ।
स पौंस्ये᳚भिरभि॒भूरश᳚स्तीर्म॒रुत्वा᳚न्नो भव॒त्विन्द्र᳚ ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
सः । ग्रामे᳚भिः । सनि᳚ता । सः । रथे᳚भिः । वि॒दे । विश्वा᳚भिः । कृ॒ष्टि॑भिः᳚ । नु । अ॒द्य ।
सः । पौंस्ये᳚भिः । अ॒भि॒॑भूः । अश᳚स्तीः । म॒रुत्वा᳚न् । नः॒ । भ॒व॒तु॒ । इन्द्रः᳚ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इंद्रो ग्रामेभिर्मरत्संघैः सह सनिता फलानां प्रदाता भवति । स चाद्यास्मिन्नहनि नु क्षिप्रं विश्वाभिः कृष्विभिः सर्वैर्मनुष्यै रथेभिरिंद्रसंबंधिभीः रथैः कारणभूतैर्विदे । विज्ञायते । अपि च स इंद्रः पौंस्येभिः स्वकीयैर्बलैरशस्तीरशंसनीयान् शत्रूनभिभूः । अभिभवन्वर्तते । मरुत्वान्स इंद्रो नोऽस्माकं रक्षणाय भवतु ॥ ग्रामेभिः । बहुलं छंदसीति भिस ऐसभावः । ग्रामादीनां च (फि २-१५) इत्याद्युदात्तत्वम् । विदे । विद ज्ञाने । कर्मणि लट् । बहुलं छंदसीति विकरणस्य लुक् । लोपस्त आत्मनेपदेष्विति तलोपः ॥ १० ॥