श्रवणम्

1.44.9 समानपद
पति॒र्ह्य᳚ध्व॒राणा॒मग्ने᳚ दू॒तो वि॒शामसि᳚ ।
उ॒ष॒र्बुध॒ आ व᳚ह॒ सोम᳚पीतये दे॒वा{4} अ॒द्य स्व॒र्दृशः᳚ ॥
▶ पदपाठः (Word-by-word)
पतिः᳚ । हि । अ॒ध्व॒राणा᳚म् । अग्ने᳚ । दू॒तः । वि॒शाम् । असि᳚ ।
उ॒षः॒॑बुधः᳚ । आ । व॒ह॒ । सोम᳚॑पीतये । दे॒वान् । अ॒द्य । स्वः॒॑दृशः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विशां प्रजानां संबंधिनो येऽध्वरा यागास्तेषां पतिः पालकस्त्वं दूतोऽसि हि । देवानां वार्ताहारो भवसि खलु । उषर्बुध उषःकाले प्रबुद्धान् स्वर्दृशः सूर्यदर्शिनो देवानद्यास्मिन्दने सोमपीतये सोमपानार्थमा वह । आभिमुख्येन प्रापय ॥ असि । हि चेति निघातप्रतिषेधः । सोमपीतये । पा पाने । स्थागापापचो भाव इति भावे क्तिन् । घुमीस्थेतीत्वम् । सोमस्य पीतिः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । स्वर्दृशः । सुष्ठ्वर्ति गच्छतीति स्वरादित्यः । अर्तेरन्येभ्योऽपि दृश्यंत इति विच् । तं पश्यंतीति स्वर्दृशः । क्विप्चेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ९ ॥