श्रवणम्

1.44.4 समानपद
श्रेष्ठं॒ यवि᳚ष्ठ॒मति᳚थिं॒ स्वा᳚हुतं॒ जुष्टं॒ जना᳚य दा॒शुषे᳚ ।
दे॒वा{4} अच्छा॒ यात᳚वे जा॒तवे᳚दसम॒ग्निमी᳚ळे॒ व्यु᳚ष्टिषु ॥
▶ पदपाठः (Word-by-word)
श्रेष्ठ᳚म् । यवि᳚ष्ठम् । अति᳚थिम् । सु॑आ᳚हुतम् । जुष्टम् । जना᳚य । दा॒शुषे᳚ ।
दे॒वान् । अच्छ᳚ । यात᳚वे । जा॒त॑वे᳚दसम् । अ॒ग्निम् । ई॒ळे॒ । वि॑उ᳚ष्टिषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

व्युष्टिषूषःकालेषु देवान् इतरान्सर्वदेवानच्छाभिमुख्येन यातवे गंतुमग्निं देवमीळे । स्तौमि । कीदृशम् । श्रेष्ठमतिशयेन प्रशस्तं यविष्ठं युवतमं अतिथिं सततगमनक्षमं स्वाहुतं सुष्ठु आ समंताद्धोमाधिकरणं दाशुषे हविर्दत्तवते जनाय यजमानाय जुष्टं प्रीतं जातवेदसं जातानां वेदितारं ॥ यविष्ठम् । युवशब्दादिष्ठनि स्धूलदूरेत्यादिना यणादेः परस्य लोपः । पूर्वस्य च गुणः । अवादेशः । नित्त्वादाद्युदात्तत्वम् । अतिथिम् । अत सातत्यगमने । ऋुतन्यंजीत्यादिना (उ ४-२) इथिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । स्वाहुतम् । हु दानादनयोः । आहूयतेऽस्मिन्नित्याहुतः । सुः पूजायाम् (पा १-४-९४) इति सुशब्दस्य कर्मप्रवचनीयसंज्ञायां स्वती पूजायाम् (पा २-२-१८) इति समासः । अव्यय पूर्वपदप्रकृतिस्वरत्वम् । न च गतिकारकोपपदाश्कृदिति गतेः प्रकृतिस्वरत्वम् । अस्य सुशब्दस्य गतिसंज्ञाया बाधितत्वात् ॥ ४ ॥