श्रवणम्

1.44.10 समानपद
अग्ने॒ पूर्वा॒ अनू॒षसो᳚ विभावसो दी॒देथ᳚ वि॒श्वद᳚र्शतः ।
असि॒ ग्रामे᳚ष्ववि॒ता पु॒रोहि॒तो॑सि᳚ य॒ज्ञेषु॒ मानु᳚षः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । पूर्वाः᳚ । अनु᳚ । उ॒षसः᳚ । वि॒भा॒व॒सो॒ इति᳚ विभा॑वसो । दी॒देथ᳚ । वि॒श्व॑द᳚र्शतः ।
असि᳚ । ग्रामे᳚षु । अ॒वि॒ता । पु॒रः॑हि᳚तः । असि᳚ । य॒ज्ञेषु᳚ । मानु᳚षः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विभावसो विशिष्टप्रकाशनरूपधनवन्नग्ने विश्वदर्शतः सर्वैर्दर्शनीयस्त्वम् । पूर्वा उषसोऽनु अतीतानुषःकालाननुलक्ष्य दीदेथ । दीप्तवानसि । तादृशस्त्वं ग्रामेषु जननिवासस्थानेष्ववितानि । रक्षको भवसि । यज्ञेष्वनुष्ठेयकर्मसु पुरोहितो वेदेः पूर्वस्यां दिश्यवस्थितो मानुषोऽसि । ऋत्विग्यजमानानां मनुष्याणां हितोऽसि ॥ दीदेथ । दीदेशिश्छांदसो दीप्ति कर्मा । आगमानुशासनस्यानित्यत्वादिडभावः । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यम् । का ६-१-८-१ । इति वचनाद्द्विर्वचनाभावः । विश्वदर्शतः । विश्वैर्दर्शनीयः । भृमृदृशीत्यादिना दृशेरतच् । मरुद्वृधाधित्वात्पूर्वपदांतोदात्तत्वम् । पा ६-२-१०६-२ । पुरोहितः । पूर्वाधरावराणामसि पुरधवश्चैषामित्यसिप्रत्ययांतः पुरस् शब्दः । तद्धितश्चासर्वविभक्तिरित्यव्ययत्वात् पुरोऽव्ययम् (पा १-४-६७) इति गतिसंज्ञायां सत्यां गतिसमासे गतिरनंतर इति पूर्वपदप्रकृतिस्वरत्वं ॥ २९ ॥ १० ॥