श्रवणम्

1.44.12
यद्दे॒वानां᳚ मित्रमहः पु॒रोहि॒तो॑न्त᳚रो॒ यासि᳚ दू॒त्य᳚म् ।
सिन्धो᳚रिव॒ प्रस्व᳚नितास ऊ॒र्मयो॒॑ग्नेर्भ्रा᳚जन्ते अ॒र्चयः᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । दे॒वाना᳚म् । मि॒त्र॒॑म॒हः॒ । पु॒रः॑हि᳚तः । अन्त᳚रः । यासि᳚ । दू॒त्य᳚म् ।
सिन्धोः᳚॑इव । प्र॑स्व᳚नितासः । ऊ॒र्मयः᳚ । अ॒ग्नेः । भ्रा॒ज॒न्ते॒ । अ॒र्चयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रमहो मित्राणां पूजकाग्ने यद्यदा पुरोहितस्त्वं वेदेः पूर्व स्यां दिशि स्थापितोंऽतरो देवयजनमध्ये वर्तमानः सन् देवानां दूत्यं दूत कर्म यासि प्राप्नोषि तदानीमग्नेस्तवार्चयो दीप्तयो भ्राजंते । दीप्यंते । तत्र दृष्टांतः । सिंधोरिव यथा समुद्रस्य प्रस्वनितासः प्रकृष्टध्वनियुक्ता ऊर्मयस्तरंगा भ्राजंते तद्वत् ॥ मित्रमहः । मह पूजायां मित्रैर्ऋत्विग्भिर्मह्यते पूज्यत इति मिश्रमहाः । औणादिकोऽसुन् । यासि । यद्वृत्तयोगादनिघातः । दूत्यम् । दूतस्य कर्म दूत्यम् । दूतस्य भागकर्मणी (पा ४-४-१२०) इति यत्प्रत्ययः । सर्वे विधयश्छंदसि विकल्प्यंत इति वचनाद्यतोऽनाव इत्याद्युदात्तत्वाभावे तित्स्वरितमिति स्वरितत्वम् । प्रस्वनितासः । स्यमु स्वन ध्वन शब्दे । भावे निष्ठा । प्रकृष्टं स्वनितं येषां ते प्रस्वनिताः । असुगागमः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ऊर्मयः । अर्तेरूच्च । उ ४-४-४४ । इति मिप्रत्ययः ॥ १२ ॥