श्रवणम्

1.44.14
शृ॒ण्वन्तु॒ स्तोमं᳚ म॒रुतः᳚ सु॒दान᳚वो॑ग्निजि॒ह्वा ऋ᳚ता॒वृधः᳚ ।
पिब᳚तु॒ सोमं॒ वरु᳚णो धृ॒तव्र᳚तो॒॑श्विभ्या᳚मु॒षसा᳚ स॒जूः ॥
▶ पदपाठः (Word-by-word)
शृ॒ण्वन्तु᳚ । सोम᳚म् । म॒रुतः᳚ । सु॒॑दान᳚वः । अ॒ग्नि॒॑जि॒ह्वाः । ऋ॒त॒॑वृधः᳚ ।
पिब᳚तु । सोम᳚म् । वरु᳚णः । धृ॒त॑व्र᳚तः । अ॒श्वि॑भ्या᳚म् । उ॒षसा᳚ । स॒॑जूः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतो देवाः स्तोममस्मदीयं स्तोत्रं शृण्वंतु । कीदृशाः । सुदानवः सुष्ठु फलस्य दातारः अग्निजिह्वा अग्निर्जिह्वास्थानीयो मुख्यो येषु मरुत्सुतादृशाः ऋुतावृधः सत्यस्य यज्ञस्य वा वर्धकाः । तथा धृतव्रतो गृहीतकर्मा वरुणो देवोऽश्विभ्यां देवाभ्यामुषसा देवतया सजूः सह सोमं पिबतु ॥ सुदानवः । डुदाञ् दाने । दाभाभ्यां नुः (उ ३-३२) इति भावे नुप्रत्ययः । दानुशब्द आद्युदात्तः । शोभनं दानु येषाम् । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । अग्निजिह्वाः । अग्नेर्जिह्वायामवस्थिता हविर्भाज इत्यर्थः । तात्स्थ्या त् ताच्छब्द्यम् । अग्निर्जिह्वास्थानीयो येषां ते । छांदसमंतोदात्तत्वम् । ऋतावृधः । ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारः । वृधेरंतर्भावितण्यर्थात् । क्विप्चेति क्विप् । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वं ॥ ३० ॥ १४ ॥