नि त्वा᳚ य॒ज्ञस्य॒ साध᳚न॒मग्ने॒ होता᳚रमृ॒त्विज᳚म् ।
म॒नु॒ष्वद्दे᳚व धीमहि॒ प्रचे᳚तसं जी॒रं दू॒तमम᳚र्त्यम् ॥
म॒नु॒ष्वद्दे᳚व धीमहि॒ प्रचे᳚तसं जी॒रं दू॒तमम᳚र्त्यम् ॥
पदपाठः (Word-by-word)
नि । त्वा॒ । य॒ज्ञस्य᳚ । साध᳚नम् । अग्ने᳚ । होता᳚रम् । ऋ॒त्विज᳚म् ।
म॒नु॒ष्वत् । दे॒व॒ । धी॒म॒हि॒ । प्र॑चे᳚तसम् । जी॒रम् । दू॒तम् । अम᳚र्त्यम् ॥
म॒नु॒ष्वत् । दे॒व॒ । धी॒म॒हि॒ । प्र॑चे᳚तसम् । जी॒रम् । दू॒तम् । अम᳚र्त्यम् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने देव मनुष्वत् यथा मनुर्यागदेशे निदधाति तद्वद्वयं त्वां नि धीमहि । अत्र स्थापयामः । कीदृशम् । यज्ञस्य साधनं यज्ञनिष्पादकं होतारमृत्विजं ऋतौ वसंतादिके यष्थारं प्रचेतसं प्रकृष्टाज्ञानयुक्तं जीरं शत्रूणां वयोहानिकरं दूतं देवानां दूतस्थानीयं आमर्त्यं मरणरहितम् । मनुष्वत् । औणादिकोऽसिप्रत्ययांतो मनस् शब्दः । तेन तुल्यं क्रिया चेद्वतिः (पा ५-१-११५) इति वतिप्रत्ययः । अयस्मयादित्वेन भत्वाद्रुत्वाद्यभावः । धीमहि । डुधाञ् धारणपोषणयोः । लिङ्यभ्यासलोपश्छांदसः । जीरम् । जु इति सौत्रो धातुः । चोरी च (उ २-२३) इति रक्प्रत्ययः । कात्यायन स्त्वाह । रकि ज्यः संप्रसारणे जीर इति ॥ ११ ॥