श्रवणम्

1.44.7
होता᳚रं वि॒श्ववे᳚दसं॒ सं हि त्वा॒ विश᳚ इ॒न्धते᳚ ।
स आ व᳚ह पुरुहूत॒ प्रचे᳚त॒सो॑ग्ने᳚ दे॒वा{4} इ॒ह द्र॒वत् ॥
▶ पदपाठः (Word-by-word)
होता᳚रम् । वि॒श्व॑वे᳚दसम् । सम् । हि । त्वा॒ । विशः᳚ । इ॒न्धते᳚ ।
सः । आ । व॒ह॒ । पु॒रु॒॑हू॒त॒ । प्र॑चे᳚तसः । अग्ने᳚ । दे॒वान् । इ॒ह । द्र॒वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

होतारं होमनिष्पादकं विश्ववेदसं सर्वज्ञं त्वामग्निं विशः प्रजाः समिंधते हि । सम्यग्दीपयंति खलु । हे पुरुहूत बहुभिराहूताग्ने स त्वं प्रचेतसः प्रकृष्टज्ञानयुक्तान्देवानिह कर्मणि द्रवत् क्षिप्रमा वह । अभिमुख्येन प्रापय । द्रवदिति क्षिप्रनाम । द्रवदोषमिति तन्नामसु पाठात् । विश्ववेदसम् । विश्वानि वेत्तीति विश्ववेदाः । असुन् । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । यद्वा । वेद इति धननाम । विश्वानि वेदांसि यस्यासौ विश्ववेदा । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । इंधशे । ञिइन्धी दीप्रौ । श्नसोरल्लोप इत्यकारलोपः । श्नान्नलोपः (पा ६-४-२३) प्रत्ययस्वरः । हि चेति निघातप्रतिषेधः ॥ ७ ॥