श्रवणम्

1.44.5 समानपद
स्त॒वि॒ष्यामि॒ त्वाम॒हं विश्व᳚स्यामृत भोजन ।
अग्ने᳚ त्रा॒तार᳚म॒मृतं᳚ मियेध्य॒ यजि᳚ष्ठं हव्यवाहन ॥
▶ पदपाठः (Word-by-word)
स्त॒वि॒ष्यामि᳚ । त्वाम् । अ॒हम् । विश्व᳚स्य । अ॒मृ॒त॒ । भो॒ज॒न॒ ।
अग्ने᳚ । त्रा॒तार᳚म् । अ॒मृत᳚म् । मि॒ये॒ध्य॒ । यजि᳚ष्ठम् । ह॒व्य॒॑वा॒ह॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अमृत मरणरहित विश्वस्य भोजन कृत्स्नस्य जगतः पालक हव्यवाहन हविषो वोढः मियेध्य यज्ञार्ह एवंविध हे अग्ने विश्वस्य त्रातारं सर्वस्य जगतो रक्षकममृतं मरणरहितं यजिष्ठमतिशयेन यष्टारं त्वामहमनुष्ठातास्तविष्यामि । स्तुतिंकरिष्यामि ॥ स्तविष्यामि । ष्टुञ् स्तुतौ । व्यत्ययेनेडागमः । आगमानुदात्तत्वे प्रत्ययस्वरः । भोजन । कर्मफलं भोजयतीति भोजनः । नंद्यादिलक्षणो ल्युः । त्रातारम् । त्रैङ् पालने । आदेच इत्यात्वम् । तृच्येकाच उपदेश इतीट् प्रतिषेधः । अमृतम् । नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । मियेध्य । इयागमश्छांदसः । यजिष्ठम् । यष्टृशब्दात्तुश्छंदसीतीष्ठन्प्रत्ययः । तुरिष्ठेमेयःस्विति तृलोपः ॥ ५ ॥