दि॒वश्चि॒त्पूर्वो॒ न्य᳚सादि॒ होता॒पृच्छ्यो᳚ वि॒श्पति᳚र्वि॒क्षु वे॒धाः ॥
पदपाठः (Word-by-word)
दि॒वः । चि॒त् । पूर्वः᳚ । नि । अ॒सा॒दि॒ । होता᳚ । आ॒॑पृच्छ्यः᳚ । वि॒श्पतिः᳚ । वि॒क्षु । वे॒धाः ॥
सायणभाष्यम् (Sayana Commentary)
शासुः शासितुरस्याग्नेरुभयास उभयेऽपि देवा मनुष्याश्च । यद्वा । स्तुतिभिः स्तोतारो यज्ञैर्यजमानाश्चेममग्निं शासितारं सचंते । सेवंते । उशिजः कामयमाना देवा हविष्मंतो हविषा युक्ता ये च मर्ता मरणधर्माणो यजमानाः । यद्वा । उशिज इति मेधाविनाम । उशिजो मेधाविनः स्तोतारो हविष्मंतो हविर्युक्ता मर्ता यजमानाः । किंचायं होता होमनिष्पादकोऽग्निर्दिवश्चित् आदित्यादपि पूर्व उषःसु वर्तमानो भूत्वाग्निहोत्रहोमार्थं विक्षु यजमानेषु न्यसादि । अध्वर्युणाग्न्यायतने न्यधायि । स्थाप्यते । कीदृशो होता । आपृच्छ्य आ प्रष्टव्यः । पूज्य इत्यर्थः । विश्पतिर्विशां प्रजानां पालयिता वेधाः । विधाताभिमतफलस्य कर्ता ॥ शासुः शासु अनुशिष्टौतृन्तृचौ शंसिशसिशासिक्षदादिभ्यः संज्ञायां चानिटौ (उ २-९४) इति तृन् । इडागमाभावश्च । षष्ठ्येकवचने तकारलोपश्छांदसः । नित्त्वादाद्युदात्तत्वम् । उशिजः । वशः कित् (उ २-७१) इति वष्टेरिजिप्रत्ययः । ग्रहिज्यादिना संप्रसारणम् । मर्ताः । मृङ् प्राणत्यागे । असिहसिमृग्रिण्वामीत्यादिना तन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । आपृच्छ्यः । प्रच्छ ङीप्सायाम् । आङ् पूर्वादस्माच्छंदसि निष्वर्क्येत्यादौ (पा ३-१-१२३) क्यप् प्रत्ययो निपातितः । ग्रहिज्यादिना संप्रसारणम् । क्यपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । विश्पतिः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते परादश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वं ॥ २ ॥