श्रवणम्

1.178.2
न घा॒ राजेन्द्र॒ आ द᳚भन्नो॒ या नु स्वसा᳚रा कृ॒णव᳚न्त॒ योनौ᳚ ।
आप᳚श्चिदस्मै सु॒तुका᳚ अवेष॒न्गम᳚न्न॒ इन्द्र᳚ः स॒ख्या वय᳚श्च ॥
▶ पदपाठः (Word-by-word)
न । घ॒ । राजा᳚ । इन्द्रः᳚ । आ । द॒भ॒त् । नः॒ । या । नु । स्वसा᳚रा । कृ॒णव᳚न्त । योनौ᳚ ।
आपः᳚ । चि॒त् । अ॒स्मै॒ । सु॒॑तुकाः᳚ । अ॒वे॒ष॒न् । गम᳚त् । नः॒ । इन्द्रः᳚ । स॒ख्या । वयः᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंराजा राजमानईश्वरोवा इन्द्रः नोस्मदीयानिकर्माणिनादभत् सर्वतोनहिंस्यात् घपूरणः का- नीतिउच्यते या यानिकर्माणि वृष्ट्यादिरूपाणि स्वसारा परस्परंस्वसृभूतेस्वयंसरणभूते अहो शत्रे नुपूरणः योनौस्वकीयेस्थानेकृणवन्त द्विवचनस्थानेबहुवचनं कुरुतः कृविहिंसाकरणयोश्च धिन्विकृ- ण्व्योरचेत्युप्रत्ययः बहुलग्रहणाच्छप् तानीन्द्रोप्यनुजानात्वित्यर्थः स्वसृभूतावध्वर्युयजमानौवा कुरु- तः यद्वा स्वसारोङ्गुलयोयोनौफलोत्पादनस्थानेयज्ञे यानिकृतवत्यस्तानीतियोन्यं किञ्च अस्माइन्द्रा- यसुतुकाः शोभनबलहेतून्यापः अप् कार्याणिहवींषि अवेषन् व्याप्नुवन्तिनोस्मभ्यमिन्द्रः सख्यासख्या- निवयश्चप्रभूतमन्नंचग्मत् गमयतु ॥ २ ॥