आ सूर्ये॒ न र॒श्मयो᳚ ध्रु॒वासो᳚ वैश्वान॒रे द᳚धिरे॒॑ग्ना वसू᳚नि ।
या पर्व᳚ते॒ष्वोष᳚धीष्व॒प्सु या मानु᳚षे॒ष्वसि॒ तस्य॒ राजा᳚ ॥
या पर्व᳚ते॒ष्वोष᳚धीष्व॒प्सु या मानु᳚षे॒ष्वसि॒ तस्य॒ राजा᳚ ॥
पदपाठः (Word-by-word)
आ । सूर्ये᳚ । न । र॒श्मयः᳚ । ध्रु॒वासः᳚ । वै॒श्वा॒न॒रे । द॒धि॒रे॒ । अ॒ग्ना । वसू᳚नि ।
या । पर्व᳚तेषु । ओष᳚धीषु । अ॒प्॑सु । या । मानु᳚षेषु । असि᳚ । तस्य᳚ । राजा᳚ ॥
या । पर्व᳚तेषु । ओष᳚धीषु । अ॒प्॑सु । या । मानु᳚षेषु । असि᳚ । तस्य᳚ । राजा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अग्ना वैश्वानरेऽगौ वसूनि धनान्या दधिरे । आहितानि स्थापितानि बभूवुः । तत्र दृष्टांतः । ध्रुवासो निश्चला रश्मयः किरणाः सूर्ये न यथा सूर्य आधीयंते तद्वत् । अतस्त्वं पर्वतादिषु यानि धनानि विद्यंते तस्य धनजातस्य राजासि । अधिपतिर्भवति ॥ अग्ना । सुपां सुलुगिति विभक्तेर्डादेशः । या । शेश्छंदसि बहुलमिति शेर्लोपः । ओषधीषु । उष दाहे । ओषः पाकः । भावे घञ् । ञित्त्वादाद्युदात्तत्वम् । ओष आसु धीयत इत्योषधयः । कर्मण्यधिकरणे चेति किप्रत्ययः । दासीभारादिषु पठितत्वात्पूर्वपदप्रकृतिस्वरत्वम् । सप्तमी बहुवचन ओषधेश्च विभक्तावप्रथमायाम् (पा ६-३-१३२) इति दीर्घः । अप्सु । ऊडिदमिति विभक्तेरुदात्तत्वं ॥ ३ ॥