श्रवणम्

1.59.2 समानपद
मू॒र्धा दि॒वो नाभि᳚र॒ग्निः पृ᳚थि॒व्या अथा᳚भवदर॒ती रोद᳚स्योः ।
तं त्वा᳚ दे॒वासो᳚॑जनयन्त दे॒वं वैश्वा᳚नर॒ ज्योति॒रिदार्या᳚य ॥
▶ पदपाठः (Word-by-word)
मू॒र्धा । दि॒वः । नाभिः᳚ । अ॒ग्निः । पृ॒थि॒व्याः । अथ᳚ । अ॒भ॒व॒त् । अ॒र॒तिः । रोद᳚स्योः ।
तम् । त्वा॒ । दे॒वासः᳚ । अ॒ज॒न॒य॒न्त॒ । दे॒वम् । वैश्वा᳚नर । ज्योतिः᳚ । इत् । आर्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

विषुवत्संज्ञेऽहन्नाग्निमारुते मूर्धा दिवो नाभिरग्निः पृथिव्या इति वैकल्पिकोऽनुरूपस्तृचः । विषुवान्दिवाकीर्त्य इति खंडे सूत्रितम् । मूर्धानं दिवो अरतिं पृथिव्या मूर्धा दिवो नाभिरग्निः पृथिव्या इति वा (आ ८-६) इति ॥

अयमग्निर्दिवो द्युलोकस्य मूर्धा शिरोवत्प्रधानभूतो भवति । पृथिव्या भूमेश्च नाभिः संनाहकः । रक्षक इत्यर्थः । अथानंतरं रोदस्योर्द्यावापृथिव्योरयमरतिरधिपतिरभवत् । हे वैश्वानर तं तादृशं देवं दानादिगुणयुक्तं त्वा त्वां देवासः सर्वे देवा आर्याय विदुषे मनवे यजमानाय वा ज्योतिरत् ज्योतीरूपमेवाजनयंत । उदपादयन् ॥ मूर्तमस्मिन्धीयत इति मूर्धा (नि ७-२७) श्वन्नुक्षन्नित्यादौ निपातनाद्रूपसिद्धिः । पृथिव्याः । पृथिवीशब्दः । षिद्गौरादिभ्यश्चेति ङीष्प्रत्ययांतोऽंतोदात्तः । आजनयंत । जनीजृष्क्नसुरंजोऽमंताश्च । धा १९-६३, ६७ । इति मित्त्वान्मितां ह्रस्व इति ह्रस्वत्वं ॥ २ ॥