श्रवणम्

1.59.5
दि॒वश्चि᳚त्ते बृह॒तो जा᳚तवेदो॒ वैश्वा᳚नर॒ प्र रि᳚रिचे महि॒त्वम् ।
राजा᳚ कृष्टी॒नाम᳚सि॒ मानु᳚षीणां यु॒धा दे॒वेभ्यो॒ वरि᳚वश्चकर्थ ॥
▶ पदपाठः (Word-by-word)
दि॒वः । चि॒त् । ते॒ । बृ॒ह॒तः । जा॒त॒॑वे॒दः॒ । वैश्वा᳚नर । प्र । रि॒रि॒चे॒ । म॒हि॒॑त्वम् ।
राजा᳚ । कृ॒ष्टी॒नाम् । अ॒सि॒ । मानु᳚षीणाम् । यु॒धा । दे॒वेभ्यः᳚ । वरि᳚वः । च॒क॒र्थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे जातवेदो जातानां वेदितर्वैश्वानराग्ने ते तव महित्वं महात्म्यं बृहतो महतो दिवश्चित् द्युलोकादपि प्ररिरिचे । प्रववृधे । किंच त्वं मानुषीणां मनोर्जातानां कृष्वीनां प्रजानां राजासि । अधिपतिर्भवसि । तथा वरिवोऽसु रैरपहृतं धनं युधा युद्धेन देवेभ्यश्ज कर्थ । देवाधीनमकार्षीः ॥ वैश्वानर पादादित्वादाष्टमिकनिघाताभावः । रिरिचे । रिचिर् विरेचने । अत्रोपसर्गवशात्तद्विपरीत आधिक्ये वर्तते । कृष्टीनाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । मानुषीणाम् । मानुषशब्दो मनोर्जातावित्य ञ् प्रत्ययांतः । जातिलक्षणे ङीषि प्राप्ते तदपवादतया शार्ङ्गरवाद्य ञ इति ङीन् । नित्त्वादाद्युदात्तत्वम् । ङ्याश्छंदसि बहुलम् (पा ६-१-१७८) इति बहुलवचनान्नाम उदात्तस्याभावः । युधा । युध संप्रहार इत्यस्मात्संपदादिलक्षणो भावे क्विप् । वरिव इति धननाम । नब्विषयस्येत्याद्युदात्त्वं ॥