श्रवणम्

1.48.4 समानपद
उषो॒ ये ते॒ प्र यामे᳚षु यु॒ञ्जते॒ मनो᳚ दा॒नाय᳚ सू॒रयः᳚ ।
अत्राह॒ तत्कण्व᳚ एषां॒ कण्व᳚तमो॒ नाम᳚ गृणाति नृ॒णाम् ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । ये । ते॒ । प्र । यामे᳚षु । यु॒ञ्जते᳚ । मनः᳚ । दा॒नाय᳚ । सू॒रयः᳚ ।
अत्र᳚ । अह᳚ । तत् । कण्वः᳚ । ए॒षा॒म् । कण्व᳚॑तमः । नाम᳚ । गृ॒णा॒ति॒ । नृ॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषस्ते तव यामेषु गमनेषु सत्सु ये सूरये विद्वांसो दानाभिज्ञादानाय धनादिदानार्थं मनः स्वकीयं प्रयुंजते प्रेरयंति । दानशीला उदाराः प्रभवः प्रातःकाले दातुमिच्छंतीत्यर्थः । एषां दातुमिच्छतां नृणां तन्नाम दानविषये लोकप्रसिद्धं नाम कण्वतमोऽतिशयेन मेधावी कण्वो महर्षिरत्राह अत्रैवोषःकाले गृणाति । उच्चारयति । यो दातुमिच्छति यश्च नामग्रहणेन दातारं प्रशंसति तावुभावप्युषःकाल एव तथा कुरुत इत्युषसः स्तुतिः ॥ गृणाति गृशब्दे । क्रैयादिकः । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । नृणाम् । नामि नृ च । पा ६-४-६ इति दीर्घप्रतिषेधः नृ चान्यतरस्याम् (पा ६-१-१८४) इति विभक्तेरुदात्तत्वं ॥ ४ ॥