श्रवणम्

1.119.8
अग᳚च्छतं॒ कृप᳚माणं परा॒वति᳚ पि॒तुः स्वस्य॒ त्यज᳚सा॒ निबा᳚धितम् ।
स्व᳚र्वतीरि॒त ऊ॒तीर्यु॒वोरह᳚ चि॒त्रा अ॒भीके᳚ अभवन्न॒भिष्ट᳚यः ॥
▶ पदपाठः (Word-by-word)
अग᳚च्छतम् । कृप᳚माणम् । प॒रा॒॑वति᳚ । पि॒तुः । स्वस्य᳚ । त्यज᳚सा । नि॑बा᳚धितम् ।
स्वः᳚॑वतीः । इ॒तः । ऊ॒तीः । यु॒वोः । अह᳚ । चि॒त्राः । अ॒भीके᳚ । अ॒भ॒व॒न् । अ॒भिष्ट᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ परावति दूरदेशे समुद्रमद्ये स्वस्य पितुस्तुग्रस्य त्यजसा त्यागेन निबाधितं पीडितं भुज्युं कृपमाणं युवां स्तुवंतमगच्छतम् । युवां रक्षणार्थं गतवंतौ । यस्मादेवं तस्माद्धे अश्विनौ स्वर्वतीः स्वर्वत्यः शोभनगमनयुक्ता इत इतोमुखाच्चित्राश्चायनीया युवोरह युवयोरेवोतीरूतयो रक्षा आभीके समीपेऽभिष्टयः सर्वैः प्राणिभिरभ्येषणीया अभवन् । भवंति ॥ कृपमाणम् । कृपतिः । स्तुतिकर्मा । अयं च तुदादिर्द्रष्टव्यः । स्वर्वतीः । सुपूर्वादर्तेर्भावे विच् । ततो मतुप् । छंदसीर इति मतुपो वत्वम् । अभिष्टयः । इषु इच्छायाम् । भावे क्तिन् । शकंध्वादित्वात्पररूपत्वं ॥ ८ ॥