यु॒वं रे॒भं परि᳚षूतेरुरुष्यथो हि॒मेन᳚ घ॒र्मं परि᳚तप्त॒मत्र᳚ये ।
यु॒वं श॒योर᳚व॒सं पि᳚प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वन्द᳚नस्ता॒र्यायु᳚षा ॥
यु॒वं श॒योर᳚व॒सं पि᳚प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वन्द᳚नस्ता॒र्यायु᳚षा ॥
पदपाठः (Word-by-word)
यु॒वम् । रे॒भम् । परि᳚॑सूतेः । उ॒रु॒ष्य॒थः॒ । हि॒मेन᳚ । घ॒र्मम् । परि᳚॑तप्तम् । अत्र᳚ये ।
यु॒वम् । श॒योः । अ॒व॒सम् । पि॒प्य॒थुः॒ । गवि᳚ । प्र । दी॒र्घेण᳚ । वन्द᳚नः । ता॒रि॒ । आयु᳚षा ॥
यु॒वम् । श॒योः । अ॒व॒सम् । पि॒प्य॒थुः॒ । गवि᳚ । प्र । दी॒र्घेण᳚ । वन्द᳚नः । ता॒रि॒ । आयु᳚षा ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विनौ युवं युवां रेभमृषिं परिषूतेः परितः प्रेरकादुपद्रवात्कॊपपतनाद्वोरुप्यथः । रक्षथः । उरुष्यती रक्षाकर्मेति यास्कः (नि ५-२३) तथात्रय ऋषिये परितप्तम् । परितस्तप्तं घर्ममसुरैः पीडार्थं प्रक्षिप्तं दीप्यमानं तुषाग्निं हिमेन शीतेनोदकेनावारयेथाम् । यद्वा । हविषामत्रये भक्षयित्रेऽग्नये परितप्तं सूर्यकिरणैः संतप्तं घर्मम् । अहर्नामैतत् । अहर्हिमेन वृष्ट्युदकेन हविःसंपादकव्रीह्याद्युत्पत्त्यर्थमवारयेथाम् । अपि च शयोरेतत्संज्ञ स्यर्षेर्गवि निवृत्तप्रसवायां धेनाववसं रक्षकं पयो युवं युवां पिप्यथुः । प्रवर्धितवंतौ । तथा जीर्णांगो वंदन ऋषिर्दीर्घेणायुषा प्र तारि । युवाभ्यां प्रवर्धीतः । प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ अवसम् । अवतेरौणादिकोऽसच् । पिप्यथुः । प्यायी वृद्धौ । व्यत्ययेन परस्मैपदम् । लिड्यङोश्च (पा ६-१-२९) इति पीभावः ॥ ६ ॥