यु॒वोरह᳚ प्रव॒णे चे᳚किते॒ रथो॒ यद᳚श्विना॒ वह᳚थः सू॒रिमा वर᳚म् ॥
पदपाठः (Word-by-word)
यु॒वोः । अह᳚ । प्र॒व॒णे । चे॒कि॒ते॒ । रथः᳚ । यत् । अ॒श्वि॒ना॒ । वह᳚थः । सू॒रिम् । आ । वर᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
मखा मखवंतो यज्ञोपेता अमिता अपरिमिता जायवो जयशीला मनुष्या रणे संग्रामे शुभे शोभनाय धनाय तदर्थं मिथः पस्पृधानासोऽन्योन्यं स्पर्धमाना यद्यदा समग्मत संगच्छंते तदानीं हे अश्विना अश्विनौ युवोरह युवोरेव रथः प्रवणे प्रकर्षेण संभजनीये भूतले चेकिते । ज्ञायते । देवेषु मध्ये युवामेव रक्षणार्थं शीघ्रं रथेनागच्छथ इत्यर्थः । यद्येन रथेन सूरि स्तोतारं प्रति वरं श्रेष्ठं धनमावहथः प्रापयथः । स रथ इत्यर्थः ॥ पस्पृधानासः । स्पर्ध संघर्षे । छांदसो लिट् । तस्य लिटः कानजादेशः । छांदसं रेफस्य संप्रसारणमकारलोपश्च । अग्मत । गमेश्छांदसो लङ् । नमो गम्यृच्छीत्यादिनात्मनेपदम् । बहुलं छंदसीति शपो लुक् । झस्यादादेशः । गमहनेत्युपधालोपः । मखाः । मखो यज्ञः । अर्शआदित्वादच् । जायवः । जि जये । कृवापाजीत्यादिनोण् । चेकिते । कित ज्ञाने । अस्माद्यङंताच्छांदसो वर्तमाने लिट् । अतोलोपयलोपौ । यत् । सुपां सुलुगिति तृतीयायालुक् ॥ ३ ॥