श्रवणम्

1.119.2 समानपद
ऊ॒र्ध्वा धी॒तिः प्रत्य᳚स्य॒ प्रया᳚म॒न्यधा᳚यि॒ शस्म॒न्त्सम᳚यन्त॒ आ दिशः᳚ ।
स्वदा᳚मि घ॒र्मं प्रति᳚ यन्त्यू॒तय॒ आ वा᳚मू॒र्जानी॒ रथ᳚मश्विनारुहत् ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वा । धी॒तिः । प्रति᳚ । अ॒स्य॒ । प्र॑या᳚मनि । अधा᳚यि । शस्म᳚न् । सम् । अ॒य॒न्ते॒ । आ । दिशः᳚ ।
स्वदा᳚मि । घ॒र्मम् । प्रति᳚ । य॒न्ति॒ । ऊ॒तयः᳚ । आ । वा॒म् । ऊ॒र्जानी᳚ । रथ᳚म् । अ॒श्वि॒ना॒ । अ॒रु॒ह॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य रथस्य प्रयामनि प्रयाणे प्रगमने सति शस्मन् अश्विनो शंसने स्तवने धीतिरस्मदीया बुद्धिरूर्ध्वोन्मुखा प्रत्यधायि । प्रत्यस्थायि । तदनंतरं दिशो देष्टव्याः स्तुतयोऽपि समयंते । अश्विभ्यां संगच्छंते । आकारः समुच्छये । अहं च स्तोता घर्मं महावीरस्थं यद्वा क्षरणशीलाज्यादिकं हविः स्वधामि । स्वादूकरोमि । ऊतयोऽवितारो रक्षका ऋत्विजश्च प्रति यंति । घर्मं प्रति गच्छंति संस्कारार्थम् । अपि च हे अश्विनौ वां युवयो रथमूर्जानी सूर्यस्य दुहितारुहत् । आरूढवती ॥ प्रयामनि । या प्रापणे । आतो मनिन्निति कृत्यल्युटो बहुलमिति बहुलवचनाद्भावे मनिन् । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । तस्मन् । तंसु स्तुतौ । अन्येभ्योऽपि दृश्यंत इति मनिन् । दृशिग्रहणस्य विध्यंतरोपसंग्रहार्थत्वादुपधानकारलोपः । सुपां सुलुगिति सप्तम्या लुक् । अयंते । अय पय गतौ । भौवादिकोऽनुदात्तेत् । ऊतयः । क्तिच् क्तौ च संज्ञायामित्यवतेः कर्तरि क्तिच् । ज्वरत्व रेत्यादिना वकारोपधयोरूट् । अरुहत् । कृमृदृरुहिभ्य इति च्लेरङादेशः ॥ २ ॥