शर्यै᳚र॒भिद्युं॒ पृत᳚नासु दु॒ष्टरं᳚ च॒र्कृत्य॒मिन्द्र᳚मिव चर्षणी॒सह᳚म् ॥
पदपाठः (Word-by-word)
शर्यैः᳚ । अ॒भि॑द्यु᳚म् । पृत᳚नासु । दु॒स्तर᳚म् । च॒र्कृत्य᳚म् । इन्द्र᳚म्॑इव । च॒र्ष॒णि॒॑सह᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
अश्विना हे अश्विनौ पेदवे पेदुनाम्ने राज्ञे पुरुवारं बहुभिर्वरणीयं स्पृधां संग्रामे स्पर्धमानानां शत्रूणां तरुतारं तारकं श्वेतं शुभ्रवर्णमिं द्राल्लब्धमश्वं युवं युवां दुवस्यथः । दत्तवंतौ । पुनरपि कीदृशम् । शर्यैः । शीर्यंत इति शर्या योद्धारः । तैः पृतनासु संगामेषु दुस्तरं तरीतुमशक्यं अभिद्युमभिगतदीप्तिं चर्कृत्यं सर्वेषु कार्येषु पुनःपुनः प्रयोज्यं इंद्रमिव चर्षणीसहं इंद्रो यथा शत्रूनभिभवति एवं शत्रुजनानामभिभवितारमित्यर्थः ॥ स्पृधाम् । स्पर्ध संघर्षे । क्विप्चेति क्विप् । चशब्देन दृशिग्रहणानुकर्षणात्तस्य च विध्यंतरोपसंग्रहार्थत्वादकारस्य लोपो रेफस्य च संप्रसारणम् । सावेकाच इति विभक्तेरुदात्तत्वम् । तरुतारम् । तॄ प्लवनतरणयोः । अस्मात्तृ चि ग्रसितस्कभितस्तभितेत्यादौ निपातनाद्रूपसिद्धिः । चर्कृत्यम् । करोतेर्यङ् लुगंताद्विभाषा कृवृषोरिति क्यप् । ततस्तुक् ॥ १० ॥