श्रवणम्

1.36.19
नि त्वाम᳚ग्ने॒ मनु᳚र्दधे॒ ज्योति॒र्जना᳚य॒ शश्व᳚ते ।
दी॒देथ॒ कण्व᳚ ऋ॒तजा᳚त उक्षि॒तो यं न᳚म॒स्यन्ति᳚ कृ॒ष्टयः᳚ ॥
▶ पदपाठः (Word-by-word)
नि । त्वाम् । अ॒ग्ने॒ । मनुः᳚ । द॒धे॒ । ज्योतिः᳚ । जना᳚य । शश्व᳚ते ।
दी॒देथ᳚ । कण्वे᳚ । ऋ॒त॑जा᳚तः । उ॒क्षि॒तः । यम् । न॒म॒स्यन्ति᳚ । कृ॒ष्टयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ज्योतिः प्रकाशरूपं त्वां शश्वते बहुविधाय जनाय मनुः प्रजापतिर्नि दधे । देवयजनदेशे स्थापितवान् । हे अग्ने त्वमृतजात ऋतेन यज्ञेन निमित्तभूतेन्नोत्पन्न उक्षितो हविर्भिस्तर्पितः सन् कण्व एतन्नामके महर्षौ दीदेथ । दीप्तवानसि । यमग्निं कृष्टयो मनुष्याः । कृष्वयश्चर्षणय इति मनुष्यनामसु पठितत्वात् । नमस्यंति नमस्कुर्वंति । स त्वमिति पूर्वत्रान्वयः ॥ दीदेथ । दीदेतिश्छांदसो दीप्तिकर्मा । थलि द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यम् । का ६-१-८-१ । इति द्विर्वचनाभावः । अनित्यमागमशासनमिति वचनादिडिभावः । लित्सर्वेण प्रत्ययात्पूर्वस्योदात्तत्वम् । ऋतजातः । ऋते जन्यत इत्यृतजातः । श्वीदितो निष्ठायामितीट् प्रतिषेधः । जनसनेत्यादिनात्वम् । तृतीयापूर्वपदप्रकृतिस्वरत्वम् । नमस्यंति । नमोवरिवः (पा ३-१-१९) इति पूङार्थे क्यच् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे क्यजंतधातुस्वरः । कृष्टयः । कृष विलेखने । क्तिच् क्तौ च संज्ञायामिति क्तिच् ॥ १९ ॥