श्रवणम्

1.36.6
त्वे इद᳚ग्ने सु॒भगे᳚ यविष्ठ्य॒ विश्व॒मा हू᳚यते ह॒विः ।
स त्वं नो᳚ अ॒द्य सु॒मना᳚ उ॒ताप॒रं यक्षि᳚ दे॒वान्त्सु॒वीर्या᳚ ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । इत् । अ॒ग्ने॒ । सु॒भगे᳚ । य॒वि॒ष्ठ्य॒ । विश्व᳚म् । आ । हू॒य॒ते॒ । ह॒विः ।
सः । त्वम् । नः॒ । अ॒द्य । सु॒॑मनाः᳚ । उ॒त । अ॒प॒रम् । यक्षि᳚ । दे॒वान् । सु॒॑वीर्या᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यविष्ठ्य युवत्तमाग्ने सुभगे सौभाग्ययुक्ते त्वे इत् त्वयेव विश्वं सर्वं हविरा हूयते । सर्वतः । प्रक्षिप्यते स त्वं नोस्मान्प्रति सुमनाः शोभन मनस्को भूत्वाद्यास्मिन्दिन उतापि चापरं श्वोऽपरं श्व इत्यादिक मुत्तरं कालं सर्वस्मिन्नपि काले नैरंतर्येण सुवीर्या शोभनवीर्योपेतान्देवान्यक्षि । यज ॥ सुभगे । शोभनो भगो यस्येति बहुव्रीहावाद्युदात्तत्वम् । द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । यविष्ठ्य । युवशब्दादिष्ठन् । स्थूलदूरेत्यादिना (पा ६-४-१५६) यणादेः परस्य लोपः पूर्वस्य च गुणः । छांदसो यकारोपजनः । यक्षि । बहुलं छंदसि शपो लुक् । सुवीर्या । शोभनं वीर्यं येषाम् । वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । सुपां सुलुगिति विभक्तेराकारः ॥ ६ ॥