श्रवणम्

1.36.8 समानपद
घ्नन्तो᳚ वृ॒त्रम᳚तर॒न्रोद᳚सी अ॒प उ॒रु क्षया᳚य चक्रिरे ।
भुव॒त्कण्वे॒ वृषा᳚ द्यु॒म्न्याहु᳚त॒ः क्रन्द॒दश्वो॒ गवि᳚ष्टिषु ॥
▶ पदपाठः (Word-by-word)
घ्नन्तः᳚ । वृ॒त्रम् । अ॒त॒र॒न् । रोद᳚सी॒ इति᳚ । अ॒पः । उ॒रु । क्षया᳚य । च॒क्रि॒रे॒ ।
भुव᳚त् । कण्वे᳚ । वृषा᳚ । द्यु॒म्नी । आ॑हु᳚तः । क्रन्द᳚त् । अश्वः᳚ । गो॑इ᳚ष्टिषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने घ्नंतस्त्वत्सहायेनेतरे देवाः प्रहरंतो वृत्रमतरन् । तीर्णवंतः । तदनंतरं रोदसी द्यावापृथिव्यावपोंऽतरिक्षं च क्षयाय प्राणिनां निवासार्थमुरु विस्तारो यथा भवति तथा चक्रिरे । अप्शब्दोंऽतरिक्षवाची । आपः पृथिवीति तन्नामसु पठितत्वात् । भवांस्तु कण्वे कण्वनामके महर्षौ वृषा कामानां वर्षिता द्युम्नी धनवान् आहुतः सर्वतो होमयुक्तश्च भुवत् । भवतु तत्र दृष्टांतः । गविष्टषु गोविषयेच्छायुक्तेषु संग्रामेष्वश्वः क्रंदत् शब्दं कुर्वन्यथाभीष्टप्रापकस्तथेति शेषः ॥ घ्नंतः । हंतेः शतरि गमहनेत्यादिनोपधालोपः । हो हंतेञ् र्णिन्नेषु (पा ७-३-५४) इति घत्वम् । अपः । ऊडिदमिति शस उदात्तत्वम् । क्षयाय । क्षिनिवासगत्योः । क्षियंति निवसंत्यस्मिन्निति क्षयो निवासस्थानम् । पुंसि संज्ञायां घः प्रायेणेति घः । क्षयो निवासे (पा ६-१-२०१) इत्याद्युदात्तत्वम् । भुवत् । भवतेर्लेड्यडागमः । इतश्च लोप इतीकारलोपः । बहुलं घंदसीति शपो लुक् भूसुवोस्तिङि (पा ७-३-८८) इति गुणप्रतिषेधः । अडागमस्यानुदात्तत्वे धातुस्वरः । आहुतः । आहूयत इत्याहुतः । हु दानादनयोः । कर्मणि क्तः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । क्रंदत् । कदि क्रदि क्लदि आह्वाने । शतरि नुमभावश्छांदसः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । गविष्टिषु । इषु इच्छायाम् । एषणमिष्टिः । गवामिष्टिर्येषु संग्रामेषु बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ८ ॥