र॒क्ष॒स्विन॒ः सद॒मिद्या᳚तु॒माव᳚तो॒ विश्वं॒ सम॒त्रिणं᳚ दह ॥
पदपाठः (Word-by-word)
र॒क्ष॒स्विनः᳚ । सद᳚म् । इत् । या॒तु॒॑माव᳚तः । विश्व᳚म् । सम् । अ॒त्रिण᳚म् । द॒ह॒ ॥
सायणभाष्यम् (Sayana Commentary)
अग्नेरर्चयो ज्वालास्त्वेषासो दीप्ता अमवंतो बलवंतो भीमासो भयंकराः । अतः प्रतीतयेऽस्माभिः प्रत्येतुं न शक्या इति शेषम् । हे अग्ने रक्षस्विनो बलवतो यातुमावतो यातुधानानसुरान् सदमित् सर्वदैव सं दह । सम्यग्भस्मीकुरु । तथा विश्वं सर्वमत्रिणं भक्षकमस्मद्बाधकं शत्रुं सं दह ॥ त्वेषासः । त्विष दीप्तौ । पचाद्यच् । चित इत्यंतोदात्तत्वम् । अमवंतः । अम रोगे । अमति शत्रून्रूजतीत्यमो बलम् । पचाद्यच् । वृषादित्त्वादाद्युदात्तत्वम् । तदेषामस्तीत्यमवंतः प्रतीतये । तादौ च नितीति गतेः प्रकृतिस्वरत्वम् । रक्षस्विनः । रक्षंत्यनेनेति रक्षो बलम् । करणेऽसुन् । अस्मायामेधेति मत्वर्थीयो विनिः । यातुमावतः । यातवो यातनाः तान्मिमते निर्मिमत इति राक्षसव्यापारा यातुमाः । आतोऽनुप सर्गे क इति कः । तदेषामस्तीति मतुप् । मतौ बह्वचोऽनजिरादीनाम् (पा ६-३-११९) इति दीर्घत्वम् । संज्ञायाम् (पा ८-२-११) इति वत्वम् । मतुपः पित्त्वादनुदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । अत्रिणम् । अदेस्त्रिनि चेति कर्तरि त्रिनिप्रत्ययः ॥ ११ ॥ २० ॥