श्रवणम्

1.36.2
जना᳚सो अ॒ग्निं द᳚धिरे सहो॒वृधं᳚ ह॒विष्म᳚न्तो विधेम ते ।
स त्वं नो᳚ अ॒द्य सु॒मना᳚ इ॒हावि॒ता भवा॒ वाजे᳚षु सन्त्य ॥
▶ पदपाठः (Word-by-word)
जना᳚सः । अ॒ग्निम् । द॒धि॒रे॒ । स॒हः॒॑वृध᳚म् । ह॒विष्म᳚न्तः । वि॒धे॒म॒ । ते॒ ।
सः । त्वम् । नः॒ । अ॒द्य । सु॒॑मनाः᳚ । इ॒ह । अ॒वि॒ता । भव᳚ । वाजे᳚षु । स॒न्त्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जनासोऽनुष्ठातारो जनाः सहोवृधं बलस्य वर्धयितारमग्निं दधिरे । धृतवंतः । हविष्मंतो हविर्युक्ता वयं हे अग्ने ते त्वां विधेम । परिचरेम । विधतिः परिचरणकर्मा । विधेम सपर्यतीति परिचरणकर्मसु पठितत्वात् । वाजेष्वन्नेषु संत्य दानशील हे अग्ने स त्वमद्यास्मिन्दिन इह कर्मणि नोऽस्मान्प्रति सुमनाः शोभनमनस्कोऽविता रक्षिता भव ॥ सहोवृधम् । वृधु वृद्धौ । अस्मादंतर्भावितण्यर्थात्क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । हविष्मंतः । तसौ मत्वर्थ इति भत्वेन पदत्वाभावाद्रुत्वाद्यभावः । विधेम । विध विधाने । तुदादित्वाच्छः । सुमनाः । शोभनं मनो यस्यासौ सुमनाः । सोर्मनसी अलोमोषसी (पा ६-२-११७) इत्युत्तरपदाद्युदात्तत्वम् । भव । पादादित्वात्तिङ्ङतिङ इति निघाताभावः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । संत्य । षणु दाने । क्तिचि तितुत्रेत्यादिना इट् प्रतिषेधः । न क्तिचि दीर्घश्च (पा ६-४-३९) इत्यनुनासिकलोपदीर्घयोर्निषेधः । संतिर्दाता । तत्र भवः संत्यः । भवे छंदसीति यत् ॥ २ ॥