श्रवणम्

1.36.14
ऊ॒र्ध्वो नः᳚ पा॒ह्यंह᳚सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं᳚ दह ।
कृ॒धी न᳚ ऊ॒र्ध्वाञ्च॒रथा᳚य जी॒वसे᳚ वि॒दा दे॒वेषु᳚ नो॒ दुवः᳚ ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वः । नः॒ । पा॒हि॒ । अंह᳚सः । नि । के॒तुना᳚ । विश्व᳚म् । सम् । अ॒त्रिण᳚म् । द॒ह॒ ।
कृ॒धि । नः॒ । ऊ॒र्ध्वान् । च॒रथा᳚य । जी॒वसे᳚ । वि॒दाः । दे॒वेषु᳚ । नः॒ । दुवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यूप यद्वा तन्निष्ठाग्ने ऊर्ध्व उन्नतः सन् नोऽस्मान्केतुना ज्ञानेनांहसः पापान्नि पाहि । नितरां पालय । विश्वमत्रिणं सर्वमत्तारं भक्षकं राक्षसं सं दह । सम्यग्भस्मीकुरु । नोऽस्मानूर्ध्वानुन्नतान्कृधि । कुरु । किमर्थम् । चरथाय लोके चरणाय जीवसे जीवनाय च नोऽस्माकं दुवो धनं हविःस्वरूपं देवेषु विदाः । लंभय ॥ अत्रिणम् । अद भक्षणे । अदेस्त्रिनि च (उ ४-६८) इत्यौणादिकस्त्रिनिप्रत्ययः । यद्वा । अदतस्त्रायंत इत्यत्राः । आतोऽनुपसर्गे क इति कः । अतो मत्वर्थीय इनिः । कृधि । श्रु शृणुपृकृवृभ्यश्छंदसीति हेर्धिरादेशः । बहुलं छंदसीति विकरणस्य लुक् । अन्येषामपि दृश्यत इति संहितायां दीर्घः । ऊर्ध्वान् । उभयथर्क्षु (पा ८-३-८) इति विकल्पविधानान्नश्छव्यप्रशान् (पा ८-३-६) इति नकारस्य रुत्वाभावः । चरथाय । चरेरौणादिको भावेऽथप्रत्ययः । जीवसे । जीव प्राणधारणे । तुमर्थे सेसेनित्यसेप्रत्ययः । विदाः विद्लृ लाभे । अस्मादंतर्भावितण्यर्थालेट सिपि लेटोऽडाटावित्याडागमः । तुदादित्वाच्छः । शे मुचादीनामिति नुम् न भवति । आनित्यमागमशासनमिति वचनेन तस्यानित्यत्वात् । इतश्च लोप इतीकारलोपः । आगमानुदात्तत्वे विकरणस्वरः ॥ १४ ॥